ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन्
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम्
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम्
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः
राजद्वारे श्मशाने च दावाग्नौ प्राणसंकटे
शत्रुग्रस्ते च संग्रामे कारागारे विपद्गते
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् 4.27.
इति श्रीब्रह्मवैवर्ते गोपकन्याकृतं सर्वमंगलास्तोत्रम् प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः
एवं पूर्णे च मासे च समाप्तिदिवसे तथा
नानाविधानि द्रव्याणि रत्नमूल्यानि नारद
तीरावृतान्यसंख्यानि तैश्च तीरं सुशोभनम्
नैवेद्यैश्च बहुविधैः कालदेशोद्भवैः फलैः
जले क्रीडोन्मुखा गोप्यो बभूवुः कौतुकेन च
दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि विविधानि च
गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदाऽन्विताः
श्रीदामा च सुदामा च वसुदामा तथैव च
चन्द्रभानो वीरभानः सूर्यभानस्तथैव च 4.27.
श्रीकृष्णो बलदेवश्च प्रधानाश्च चतुर्दश
वस्त्राण्यादाय ते सर्वे तस्थुरेकत्र दूरतः
किंचिद्वस्त्रं समादाय कृत्वा च पुञ्जिकां मुदा
श्रीकृष्ण उवाच कृत्वा विधानं मद्वाक्यं श्रुत्वा क्रीडत मन्मथात्
संकल्पिते व्रतार्हे च मासे मङ्गलकर्मणि
परिधेयानि वासांसि पुष्पमाल्यानि यानि च
व्रते तु नग्ना या स्नाति तां रुष्टो वरुणः स्वयम्
कथं यास्यथ नग्नाश्च न व्रतस्या भविष्यति
चिन्तां कुरुत तां पूज्यां तुष्टाव बलिरीश्वरीम्
कथं व्रतफलं सा वा दातुं शक्ता सुरेश्वरी 4.27.
श्रीकृष्णस्य वचः श्रुत्वा चिन्तामापुर्व्रजस्त्रियः