सर्व मङ्गलशब्दश्च संपूणैश्वर्यवाचकः
नामाष्टकमिदं सारं नामार्थसहसंयुतम्
तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम्
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै
तत्राजगाम भगवान्वृषरूपी जनार्दनः
सरथं शंकरं मूर्ध्नि कृत्वा च निर्भयं ददौ
स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः 4.27.
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम्
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन्
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम्
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम्
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः
राजद्वारे श्मशाने च दावाग्नौ प्राणसंकटे
शत्रुग्रस्ते च संग्रामे कारागारे विपद्गते
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् 4.27.
इति श्रीब्रह्मवैवर्ते गोपकन्याकृतं सर्वमंगलास्तोत्रम् प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः
एवं पूर्णे च मासे च समाप्तिदिवसे तथा
नानाविधानि द्रव्याणि रत्नमूल्यानि नारद
तीरावृतान्यसंख्यानि तैश्च तीरं सुशोभनम्
नैवेद्यैश्च बहुविधैः कालदेशोद्भवैः फलैः
जले क्रीडोन्मुखा गोप्यो बभूवुः कौतुकेन च
दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि विविधानि च
गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदाऽन्विताः
श्रीदामा च सुदामा च वसुदामा तथैव च
चन्द्रभानो वीरभानः सूर्यभानस्तथैव च 4.27.
श्रीकृष्णो बलदेवश्च प्रधानाश्च चतुर्दश