हेमन्ते प्रथमे मासि गोपिकाः काममोहिताः
स्नात्वा सूर्यसुतातीरे पार्वतीं वालुकामयीम्
चन्दनागुरुकस्तूरीकुङ्कुमैश्च मनोहरैः
धूपैर्दीपैश्च नैवेद्यैर्वस्त्रैर्नानाफलैर्मुने
हे देवि जगतां मातः सृष्टिस्थित्यन्तकारिणि
मन्त्रेणानेन देवेशीं परिहारं विधाय च
मन्त्रस्तु सामवेदोक्तोऽयातयामः सबीजकः
पुष्पं माल्यं च नैवेद्यं धूपं दीपं तथा शुभम्
प्रवालमालया भक्त्या चेमं मन्त्रं सहस्रधा 4.27.
सर्वमङ्गलमाङ्गल्ये सर्वकामप्रदे शिवे
इत्युक्त्वा च नमस्कारं कृत्वा दत्त्वा च दक्षिणाम्
श्रीनारायण उवाच भक्त्या गोपाङ्गनाः सर्वाः सर्वाभीष्टफलप्रदाम्
जगत्येकार्णवे घोरे रुद्रसूर्यविवर्जिते
दत्तं पुरा ब्रह्मणे च हरिणा जलशायिना
नाभिपद्मे जगत्स्रष्टा मधुना कैटभेन च
ब्रह्मोवाच जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले
दैत्यनाशार्थवचनो दकारः परिकीर्तितः
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः
स्मृत्युक्ति स्मरणाद्यस्या एते नश्यन्ति निश्चितम् 4.27.
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः
शश्च कल्याणवचन इकारोत्कृष्टवाचकः
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः
अभयो भयनाशोक्तश्चाकारो दातृवाचकः
राज्यश्रीवचनो माश्च याश्च प्रापणवाचकः
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः
नारायणार्धाङ्गभूता तेन तुल्या च तेजसा
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः 4.27.
जयः कल्याणवचनो याकारो दातृवाचकः