वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा
पादप्रक्षालनार्हं च सुवर्णपात्रसंस्थितम्
इदमर्घ्यं पवित्रं च शङ्खतोयसमन्वितम्
सुवासितं शुक्लपुष्पं चन्दनागुरुसंयुतम्
चन्दनागुरुकस्तूरीकुङ्कुमोशीरमुत्तमम्
रसो वृक्षविशेषस्य नानाद्रव्यसमन्वितः
दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः 4.26.
नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च
सावित्रीग्रन्थिसयुक्तं स्वर्णतन्तुविनिर्मितम्
अमूल्यरत्नरचितं सर्वा वयवभूषणम्
प्रधानो वर्णनीयश्च सर्वमङ्गलकर्मणि
धात्री श्रीफलपत्रोत्थं विष्णुतैलं मनोहरम्
वाञ्छनीयं च सर्वेषां कर्पूरादिसुवासितम्
सर्वेषां प्रीतिजनकं सुमिष्टं मधुरं मधु
निर्मलं जाह्नवीतोयं सुपवित्रं सुवासितम्
इति षोडशोपचारान्दत्त्वा भक्तो मुदाऽन्वितः
नानाप्रकारपुष्पैश्च ग्रथितं शुक्लतन्तुना 4.26.
इति पुष्पाञ्जलिं दद्यान्मूलमन्त्रेण च व्रती
भक्त उवाच संसारसागरे घोरे मामुद्धर भयानके
शतजन्मकृतायासादुद्विग्नस्य मम प्रभो
प्रणतं पादपद्मे ते पश्य मां शरणागतम्
भक्तिहीनं क्रियाहीनं विधिहीनं च वेदतः
वेदोक्तविहिताऽज्ञानात्स्वाङ्गहीने च कर्मणि
इति स्तुत्वा तं प्रणम्य दत्त्वा विप्राय दक्षिणाम्
कृत्वा व्रतोपवासं च यदि निद्रां निषेवते
अन्नं हि प्राणिनां प्राणा ब्रह्मणा निर्मितं पुरा 4.26.
एवं यः कुरुते भक्त्या भारते व्रतमुत्तमम्
मातरं भ्रातरं चैव श्वश्रूं च श्वशुरं सुताम्
इति श्रीब्रह्मववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकादशीव्रतनिरूपणं नाम षड्विंशोऽध्यायः
श्रीनारायण उवाच गोपीनां वस्त्रहरणं वरदानं मनीषितम्