नित्यपूजां दिने कृत्वा व्रतद्रव्यं समाहरेत्
आसनं वसनं पाद्यमर्घ्यं पुष्पानुलेपनम्
गन्धं स्नानीयताम्बूले मधुपर्कं पुनर्जलम्
उपविश्यासने पूतो धृत्वा धौतेयवाससी
आरोप्य मङ्गलघटं धान्याधारे शुभे क्षणे
देवषट्कं समावाह्य पृथग्धान्यैः समाचरेत्
गणेश्वरं दिनकरं वह्निं विष्णुं शिवं शिवाम् 4.26.
नाराध्य देवषट्कं च यदि कर्म समाचरेत्
इत्येवं कथितं सर्वं व्रताङ्गभूतमेव च
सामवेदोक्तध्यानेन ध्यात्वा कृष्णं परात्परम्
ध्यानं शृणु निगूढं च सर्वेषामपि वाञ्छितम्
नवीननीरदो यद्वच्छ्यामसुन्दरविग्रहम्
शरत्सूर्योदयाब्जानां प्रभामोचनलोचनम्
गोपीलोचनकोणैश्च प्रसन्नैरतिसूचकैः
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम्
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्
सद्रत्नसारनिर्माणं किरीटोज्ज्वलशेखरम् 4.26.
ध्यानासाध्यं दुराराध्यं ब्रह्मादीनां च वन्दितम्
ध्यात्वाऽनेन तमावाह्य चोपहाराणि षोडश
आसनं स्वर्णनिर्माणं रत्नसारपरिच्छदम्
वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा
पादप्रक्षालनार्हं च सुवर्णपात्रसंस्थितम्
इदमर्घ्यं पवित्रं च शङ्खतोयसमन्वितम्
सुवासितं शुक्लपुष्पं चन्दनागुरुसंयुतम्
चन्दनागुरुकस्तूरीकुङ्कुमोशीरमुत्तमम्
रसो वृक्षविशेषस्य नानाद्रव्यसमन्वितः
दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः 4.26.
नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च
सावित्रीग्रन्थिसयुक्तं स्वर्णतन्तुविनिर्मितम्
अमूल्यरत्नरचितं सर्वा वयवभूषणम्