यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः
प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा
वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा
आदित्यानां यथा सूर्यो रुद्राणां शंकरो यथा
देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः
यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः
यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा
गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा 4.26.
सुन्दरीणां यथा रम्भा यथा माया च मायिनाम्
कर्तव्यं च चतुर्णां च वर्णानां नित्यमेव च
सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च
भुक्त्वैतानि च पापानि यो भुङ्क्ते तत्र मन्दधीः
एकादशीप्रमाणानि युगसंख्याकृतानि च
इत्येवं कथितं ब्रह्मन्यो दोषस्तत्र भोजने
दशमीलङ्घने दोषं निबोध कथयामि ते
इह तद्वंशहानिश्च यशोहानिर्भवेद्ध्रुवम् 4.26.
दशम्येकादशी वापि द्वादशी यत्र वासरे
द्वादश्यां च व्रतं कृत्वा त्रयोदश्यां च पारणम्
संपूर्णैकादशी यत्र प्रभाते किंचिदेव सा
षष्टिदण्डात्मिका यत्र प्रभाते च तिथित्रयम्
परत्रानशनं कृत्वा नित्यकृत्यं समाचरेत्
तत्पूर्वदिवसे नित्यं व्रते कृत्वा परेऽहनि
वैष्णवानां यतीनां च विधवानां तथैव च
शुक्लामेव तु कुर्वन्ति गृहिणो वैष्णवेतराः
शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत्
इत्येवं कथितो ब्रह्मन्निर्णयोऽयं श्रुतौ श्रुतः 4.26.
कृत्वा हविष्यं पूर्वाह्णे न च भुङ्क्ते पुनर्जलम्
ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च
व्रतोपवासं संकल्प्य श्रीकृष्णप्रीतिपूर्वकम्