अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे
अहो श्रुतौ श्रुतं किंचिन्मतभेदान्न निश्चितम्
नारायण उवाच श्रीकृष्णप्रीतिजनकं तपः श्रेष्ठं तपस्विनाम्
देवानां च यथा कृष्णो देवीनां प्रकृतिर्यथा
यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम्
तैजसानां यथा स्वर्णं प्राणिनां वैष्णवो यथा
प्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः
गुरुस्त्रीणां यथा माता बन्धूनां च यथा पतिः
सुशीलं चैव मित्राणां शत्रूणां रुग्यथा मुने 4.26.
यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली
यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः
प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा
वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा
आदित्यानां यथा सूर्यो रुद्राणां शंकरो यथा
देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः
यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः
यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा
गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा 4.26.
सुन्दरीणां यथा रम्भा यथा माया च मायिनाम्
कर्तव्यं च चतुर्णां च वर्णानां नित्यमेव च
सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च
भुक्त्वैतानि च पापानि यो भुङ्क्ते तत्र मन्दधीः
एकादशीप्रमाणानि युगसंख्याकृतानि च
इत्येवं कथितं ब्रह्मन्यो दोषस्तत्र भोजने
दशमीलङ्घने दोषं निबोध कथयामि ते
इह तद्वंशहानिश्च यशोहानिर्भवेद्ध्रुवम् 4.26.
दशम्येकादशी वापि द्वादशी यत्र वासरे
द्वादश्यां च व्रतं कृत्वा त्रयोदश्यां च पारणम्
संपूर्णैकादशी यत्र प्रभाते किंचिदेव सा