अहमेवाद्य निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् 4.25.
लक्ष्मीदत्तं च यद्द्रव्यं न चाहं भोक्तुमीश्वरः
हे मुनीन्द्र महाप्राज्ञ गच्छ वत्स नृपालयम्
इत्युक्त्वा श्रीहरिस्तूर्णं ययौ स्वान्तःपुरं मुदा
ब्राह्मणश्च मनोयायी जगाम नृपमन्दिरम्
उपोष्य वत्सरं राजा शुष्ककण्ठोष्ठतालुकः
उत्थाय संभ्रमात्सद्यः प्रणम्य सादरं मुदा
भुक्त्वा तुष्टो द्विजश्रेष्ठो युयुजे परमाशिषम्
उवाच पथि विप्रेन्द्रो मनसा विस्मयाकुलः
नारद उवाच पराभवो मुनेश्चैव नृपत्राणं हरेरहो
अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे
अहो श्रुतौ श्रुतं किंचिन्मतभेदान्न निश्चितम्
नारायण उवाच श्रीकृष्णप्रीतिजनकं तपः श्रेष्ठं तपस्विनाम्
देवानां च यथा कृष्णो देवीनां प्रकृतिर्यथा
यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम्
तैजसानां यथा स्वर्णं प्राणिनां वैष्णवो यथा
प्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः
गुरुस्त्रीणां यथा माता बन्धूनां च यथा पतिः
सुशीलं चैव मित्राणां शत्रूणां रुग्यथा मुने 4.26.
यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली
यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः
प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा
वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा
आदित्यानां यथा सूर्यो रुद्राणां शंकरो यथा
देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः
यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः
यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा
गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा 4.26.
सुन्दरीणां यथा रम्भा यथा माया च मायिनाम्