महादेव उवाच कृतापराधं दीनं च पाहीमं शरणागतम् ।। 4.25.
पार्वत्युवाच सर्वेषामीश्वरस्त्वं च रक्ष विप्रं कृतागसम्
धर्म उवाच शिशुहेतोः शिशुं हन्ति पितेत्येवं कुतः प्रभो
इंद्र उवाच अपराधफलं भूतमधुना पातुमर्हसि
रुद्र उवाच कृतकुण्ठस्य मूलस्य पालनं कर्तुमर्हसि
दिक्पाल उवाच अपराधशमं कृत्वा सदा पाति सदीश्वरः
ग्रहा ऊचुः पीडां कुर्मो वयं शश्वत्पश्चात्त्वं पातुमर्हसि
मुनय ऊचुः दण्डं विधातुमेकस्य भवेल्लज्जा स्वजातिषु
अत्रिरुवाच न कं बिभेति त्रैलोक्ये तेजस्वी तेजसा तव
लक्ष्मीरुवाच स्तुवन्ति देव विप्राश्च न विप्रं हन्तुमर्हसि
सरस्वत्युवाच भगवन्स्वामी सर्वेषां सर्वांश्च पातुमर्हसि ।। 4.25.
पार्षदा ऊचुः भवेत्सर्वापदो यान्ति पाहीमं शरणागतम्
नर्तका ऊचुः भिक्षां नः सांप्रतं देहि परित्राणं द्विजस्य च
एतेषां स्तवनं श्रुत्वा प्रभुः शरणवत्सलः
श्रीभगवानुवाच विप्ररक्षां करिष्यामि युष्माकमाज्ञया ध्रुवम्
किं त्वयं यातु वैकुण्ठादम्बरीषालयं पुनः
विप्रस्तस्यातिथिर्भूत्वा निर्दोषं शप्तुमुद्यतः
पूर्णं वर्षमयं भीतो भ्रमत्येव भुवं मुदा
ततोऽहमुपवासी च भक्तोपवासकारणात्
ममाशिषा मुनिश्रेष्ठः सद्यो भवतु विज्वरः
अहमेवाद्य निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् 4.25.
लक्ष्मीदत्तं च यद्द्रव्यं न चाहं भोक्तुमीश्वरः
हे मुनीन्द्र महाप्राज्ञ गच्छ वत्स नृपालयम्
इत्युक्त्वा श्रीहरिस्तूर्णं ययौ स्वान्तःपुरं मुदा
ब्राह्मणश्च मनोयायी जगाम नृपमन्दिरम्
उपोष्य वत्सरं राजा शुष्ककण्ठोष्ठतालुकः
उत्थाय संभ्रमात्सद्यः प्रणम्य सादरं मुदा
भुक्त्वा तुष्टो द्विजश्रेष्ठो युयुजे परमाशिषम्
उवाच पथि विप्रेन्द्रो मनसा विस्मयाकुलः
नारद उवाच पराभवो मुनेश्चैव नृपत्राणं हरेरहो