अन्येषां च भवेज्ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् 4.25.
कर्म वेदविरुद्धं च सर्वेषामतिगर्हितम्
पुराणेषु च वेदेषु चेतिहासेषु ब्राह्मण
अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः
पुत्रान्पौत्रान्कलत्रांश्च राज्यं लक्ष्मीं विहाय च
परा भक्तान्न मे प्राणा न च लक्ष्मीर्न शङ्करः
न ब्राह्मणा न वेदाश्च न वेदजननी परा
इत्येवं कथितं सर्वं सत्यं सारं च वास्तवम्
मां द्विषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः
ये द्विषन्ति च मद्भक्तान्प्राणानामधिकं प्रियान्
प्रभावोऽहं च सर्वेषामीश्वरः परिपालकः 4.25.
गोलोके वाऽथ वैकुण्ठे द्विभुजं च चतुर्भुजम्
यदुक्तं भक्तदत्तं च भक्षणीयं च तन्मम
अंबरीषं नृपश्रेष्ठं निरीहं तमहिंसकम्
दयां कुर्वंति ये सन्तः सततं सर्वजन्तुषु
भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः
नारायण उवाच विषण्णमानसस्तस्थौ स्मरन्कृष्णपदाम्बुजम्
एतस्मिन्नन्तरे ब्रह्मा भवान्या सह शंकरः
प्रणम्य तुष्टुवुः सर्वे परमात्मानमीश्वरम्
ब्रह्मोवाच भक्तापराधजनकं रक्ष ब्राह्मणपुङ्गवम्
महादेव उवाच कृतापराधं दीनं च पाहीमं शरणागतम् ।। 4.25.
पार्वत्युवाच सर्वेषामीश्वरस्त्वं च रक्ष विप्रं कृतागसम्
धर्म उवाच शिशुहेतोः शिशुं हन्ति पितेत्येवं कुतः प्रभो
इंद्र उवाच अपराधफलं भूतमधुना पातुमर्हसि
रुद्र उवाच कृतकुण्ठस्य मूलस्य पालनं कर्तुमर्हसि
दिक्पाल उवाच अपराधशमं कृत्वा सदा पाति सदीश्वरः
ग्रहा ऊचुः पीडां कुर्मो वयं शश्वत्पश्चात्त्वं पातुमर्हसि
मुनय ऊचुः दण्डं विधातुमेकस्य भवेल्लज्जा स्वजातिषु
अत्रिरुवाच न कं बिभेति त्रैलोक्ये तेजस्वी तेजसा तव
लक्ष्मीरुवाच स्तुवन्ति देव विप्राश्च न विप्रं हन्तुमर्हसि