श्यामं चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम्
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् 4.25.
पार्षदप्रवरेन्द्रैश्च सेवितं श्वेतचामरैः
सुनन्दनन्दकुमुदप्रचण्डादिभिरावृतम्
एवंभूतं प्रभुं दृष्ट्वा दण्डवत्प्रणनाम च
दीनबन्धोऽतिदीनेश करुणासागर प्रभो
वेदवेदाङ्गसंस्रष्टुर्विधातुश्च स्वयं विधे
संहारकर्तुः संहारः सर्वेशः सर्वकारणः
शरणागतशोकार्तभयत्राणपरायण
शेषः सहस्रवक्त्रेण यं स्तोतुं जडतां व्रजेत्
श्रुतयः स्मृतिकर्तारो वाणी चेत्स्तोतुमक्षमा 4.25.
मनूनां च महेन्द्राणामष्टाविंशतिमे गते
तस्य पातो भवेद्यस्य चक्षुरुन्मीलनेन च
इत्येवं स्तवनं कृत्वा पपात चरणाम्बुजे
दुर्वाससा कृतं स्तोत्रं हरेश्च परमात्मनः
यः पठेत्संकटग्रस्तो भक्तियुक्तश्च संयतः
राजद्वारे श्मशाने च कारागारे भयाकुले
वेष्टिते राजसैन्येन मग्ने पोते महार्णवे
इति श्रीब्रह्मवैवर्ते दुर्वाससा कृतं श्रीकृष्णस्तोत्रं समाप्तम् मुनेश्च स्तवनं श्रुत्वा भगवान्भक्तवत्सलः
श्रीभगवानुवाच किं तु मे वचनं नित्यं शृणु सत्यं सुखावहम्
अन्येषां च भवेज्ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् 4.25.
कर्म वेदविरुद्धं च सर्वेषामतिगर्हितम्
पुराणेषु च वेदेषु चेतिहासेषु ब्राह्मण
अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः
पुत्रान्पौत्रान्कलत्रांश्च राज्यं लक्ष्मीं विहाय च
परा भक्तान्न मे प्राणा न च लक्ष्मीर्न शङ्करः
न ब्राह्मणा न वेदाश्च न वेदजननी परा
इत्येवं कथितं सर्वं सत्यं सारं च वास्तवम्
मां द्विषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः
ये द्विषन्ति च मद्भक्तान्प्राणानामधिकं प्रियान्