अहं ब्रह्मा च इन्द्रश्च आदित्या वसवस्तथा
आविर्भूतास्तिरोभूता यस्य भ्रूभङ्गलीलया 4.25.
अहं ब्रह्मा च कमला दुर्गा वाणी च राधिका
क्षुद्रांश्च महतो भक्ताञ्छश्वद्रक्षति यत्नतः
नियुज्य चक्रं दुर्वार्यं स्वात्मतुल्यं च तेजसा
स्वकीयगुण नाम्नां च श्रवणादतिसंभ्रमः
कान्ता प्राणाधिका शश्वन्न हि कोऽपि ततोऽधिकः
सर्वेषां च प्रिया विप्राः स्वशरीरादपि द्विज
ईश्वरस्य प्रियः को वाऽप्रियः को वा जगत्त्रये
महति प्रलये ब्रह्मन्ब्रह्मण्डौघे जलप्लुते
भज ब्राह्मण गोविन्दं स्मर तस्य पदाम्बुजम्
व्रज शीघ्रं च वैकुण्ठं वैकुण्ठः शरणं तव 4.25.
एतस्मिन्नन्तरे व्याप्तं कैलासं चक्रतेजसा
दग्धा ज्वालाकरालैश्च सर्वे कैलासवासिनः
दृष्ट्वा चक्रं दुर्विषहं शंकरः करुणानिधिः
तेजः सत्यं तपः सत्यं यदि चेच्चिरसंचितम्
पार्वत्युवाच ममाशिषा महाभीत्या शीघ्रं भवतु विज्वरः
इत्येवमुक्त्वा कृपया विरराम शिवा शिवः
गत्वा वैकुण्ठभवनं मनोयायी मुनीश्वरः
ददर्श श्रीहरिं विप्रो रत्नसिंहासनस्थितम्
श्यामं चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम्
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् 4.25.
पार्षदप्रवरेन्द्रैश्च सेवितं श्वेतचामरैः
सुनन्दनन्दकुमुदप्रचण्डादिभिरावृतम्
एवंभूतं प्रभुं दृष्ट्वा दण्डवत्प्रणनाम च
दीनबन्धोऽतिदीनेश करुणासागर प्रभो
वेदवेदाङ्गसंस्रष्टुर्विधातुश्च स्वयं विधे
संहारकर्तुः संहारः सर्वेशः सर्वकारणः
शरणागतशोकार्तभयत्राणपरायण
शेषः सहस्रवक्त्रेण यं स्तोतुं जडतां व्रजेत्