नृपेन्द्रवचनं श्रुत्वा तमुवाच महामुनिः
किंत्वघमर्षणमन्त्रं तु जप्त्वाऽऽयाम्यचिरेण वै 4.25.
गते विप्रे तु राजर्षिश्चिन्तां प्राप दुरत्ययाम्
एतस्मिन्नन्तरे तत्र समायान्तं गुरुं मुदा
नायाति मुनिशार्दूलः प्रयाति द्वादशी तिथिः शीघ्रं वद मुनिश्रेष्ठ भद्राभद्रं च मामिति
श्रुत्वा नृपोक्तिं त्वरितमुवाच मुनिपुंगवः
वशिष्ठ उवाच उपवासफलं हत्वा व्रतिनं हन्ति निश्चितम्
ब्रह्महत्यासमं पापं भवेत्तस्य श्रुतौ श्रुतम्
न भोजयित्वा मूढश्चेदतिथिं समुपस्थितम्
शतवर्षं तत्र तिष्ठन्नरश्चाण्डालतां व्रजेत्
अतोऽतिसूक्ष्मं किं ब्रूमोऽधुना परम संकटे
उपवासफलं रक्ष कृष्णस्य चरणोदकम् 4.25.
इत्युक्त्वा ब्रह्मणः पुत्रो विरराम महामुने
एतस्मिन्नन्तरे ब्रह्मन्नाजगाम मुनीश्वरः
ततः समुत्थितः शीघ्रं पुरुषोऽग्निशिखोपमः
हरेश्चक्रं च तं दृष्ट्वा सूर्यकोटिसमप्रभम्
दृष्ट्वा सुदर्शनं विप्रो दुद्राव भयविह्वलः
ब्रह्माण्डक्रमणं कृत्वा निर्विण्णोऽति भयाकुलः
त्राहित्राहीत्येवमुक्त्वा विवेश ब्रह्मणः सभाम्
सर्वं स कथयामास वृत्तान्तं मूलतो विधिम्
ब्रह्मोवाच रक्षिता यस्य भगवांस्तं को हन्ता जगत्त्रये
क्षुद्राणां महतां चैव भक्तानां रक्षणाय च 4.25.
यो मूढो वैष्णवं द्वेष्टि विष्णुप्राणसमं द्विज
शीघ्रं स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुना
किं ब्रह्मलोकं ब्रह्माण्डं दग्धुं शक्तं क्षणेन यत्
ब्रह्मणो वचनं श्रुत्वा ततो दुद्राव ब्राह्मणः
कृपानिधान मां रक्षेत्युवाच शंकरं भिया
उवाच दीनदीनेशः संहर्ता जगतां क्षणात्
शंकर उवाच वेदज्ञाताऽसि सर्वज्ञ मूर्खतुल्यं तु कर्म ते
वेदेषु च पुराणेषु सेतिहासेषु सर्वतः