यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि 1.19.
कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव
हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम्
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम्
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
यो भवेत्सिद्धकवचो मम तुल्यो भवेच्च सः
प्रणवो मे शिरः पातु नमो रामेश्वराय च
कृष्णः पायाच्छ्रोत्रयुग्मं हे हरे प्राणमेव च
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु
ॐ नमो भगवते रासमण्डलेशाय स्वाहा 1.19.
ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदाऽवतु
ॐ हरये नम इति पृष्ठं पादं सदा ऽवतु
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः
सततं सर्वतः पातु परो नारायणः स्वयम्
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च कलां नार्हन्ति तान्येव कवचस्यैव धारणात्
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः
सौतिरुवाच वशिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः
ॐ नमो भगवते शिवाय स्वाहेति च मनुः 1.19.
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम्
ॐ नमो महादेवाय महेश्वर महाभाग कवचं यत्प्रकाशितम्
महेश्वर उवाच अहं तुम्यं प्रदास्यामि गोपनीयं सुदुर्लभम्
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः
संसारपावनस्यास्य कवचस्य प्रजापतिः धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
पंचलक्षजपेनैव सिद्धिदं कवचं भवेत् तेजसा सिद्धि योगेन तपसा विक्रमेण च
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः