श्रुत्वा वार्तां शुचाऽऽविष्टः पपात धरणीतले
मृतं दृष्ट्वा स दुर्वासा मुने मनसि संकटम् 4.25.
संप्राप्य चेतनां शीघ्रमुवाच तं पुरः स्थितम्
महाशोकादश्रुपूर्णं रक्तपङ्कजलोचनम्
और्व उवाच स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम्
त्वज्जन्म शंकरांशेन शिष्यस्तस्य जगद्गुरोः
अनसूया महासाध्वी कमलांशा तव प्रसूः
गुणवाञ्जनको यस्य माता गुणवती सती
मम प्राणाधिका कन्या मुदा त्वयि समर्पिता
वाग्दुष्टायाश्च दण्डो हि परित्यागः श्रुतौ श्रुतः
मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया
महतां क्षुद्रजन्तूनां सर्वेषां जीविनां सदा 4.25.
इत्युक्त्वा च मुनिश्रेष्ठो विलप्य च पुनः पुनः
गते मुनीन्द्रे दुर्वासा विललाप भृशं पुनः
शोकानलो हि कालेन विच्छिन्नो ज्ञानभस्मना
स्मारंस्मारं प्रियां तत्र विलप्य च पुनःपुनः
इत्येवं कथितं सर्वं मुनेः शापस्य कारणम्
नारद उवाच तेजस्वी को महानेव चकार तत्पराभवम्
श्रीनारायण उवाच श्रीकृष्णचरणाम्भोजे तन्मनाः संततं मुने
* न राज्येषु न भार्यासु न पुत्रेषु प्रजासु च
ध्यायतेऽहर्निशं धर्मी स्वन्ते ज्ञाने हरिं मुदा
एकादशी व्रतरतः कृष्णपूजासु तत्परः 4.25.
सुतीक्ष्णं षोडशारं च हरेश्चक्रं सुदर्शनम्
ब्रह्मादिभिः स्तूयमानं पूजितं च सुरासुरैः
एकादशीव्रतं कृत्वा द्वादशीदिवसे सति
दत्त्वा दानं ब्राह्मणेभ्यः सुवर्णरजतादिकम्
एतस्मिन्नन्तरे विप्रस्तपस्वी क्षुधितो मुने
जटिलोऽतिकृशस्त्रस्तः शुष्ककण्ठोष्ठतालुकः
स च दृष्ट्वा मुनीन्द्रं तमुत्थाय च प्रणम्य च
तस्मै दत्त्वा ऽऽशिषं विप्रः समुवास सुखासने