काले तिलोत्तमा भूत्वा जगाम स्वालयं पुनः
इत्येवं कथितं श्रुत्वा श्रीकृष्णाख्यानमुत्तमम् 4.24.
विशेषतस्तव मुखे ह्यतीव सुमनोहरम्
मृतायां मुनिकन्यायां शापाद्दुर्वाससो मुनेः
पपात धौतमूर्ध्वाच्च धार्यमाणं च वायुना
पृथिव्यां पतिते वस्त्रे तपस्त्यक्त्वा मुनीश्वरः
जगाम शोकाविष्टोऽपि तूर्णं जामातुराश्रमम्
गत्वाऽऽलयसमीपं च विप्रः कातरमानसः
श्वशरस्य स्वरं ज्ञात्वा दुर्वासा भयविह्वलः
प्रणम्य श्वशुरं शोकाद्विललाप भृशं पुनः
श्रुत्वा वार्तां शुचाऽऽविष्टः पपात धरणीतले
मृतं दृष्ट्वा स दुर्वासा मुने मनसि संकटम् 4.25.
संप्राप्य चेतनां शीघ्रमुवाच तं पुरः स्थितम्
महाशोकादश्रुपूर्णं रक्तपङ्कजलोचनम्
और्व उवाच स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम्
त्वज्जन्म शंकरांशेन शिष्यस्तस्य जगद्गुरोः
अनसूया महासाध्वी कमलांशा तव प्रसूः
गुणवाञ्जनको यस्य माता गुणवती सती
मम प्राणाधिका कन्या मुदा त्वयि समर्पिता
वाग्दुष्टायाश्च दण्डो हि परित्यागः श्रुतौ श्रुतः
मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया
महतां क्षुद्रजन्तूनां सर्वेषां जीविनां सदा 4.25.
इत्युक्त्वा च मुनिश्रेष्ठो विलप्य च पुनः पुनः
गते मुनीन्द्रे दुर्वासा विललाप भृशं पुनः
शोकानलो हि कालेन विच्छिन्नो ज्ञानभस्मना
स्मारंस्मारं प्रियां तत्र विलप्य च पुनःपुनः
इत्येवं कथितं सर्वं मुनेः शापस्य कारणम्
नारद उवाच तेजस्वी को महानेव चकार तत्पराभवम्
श्रीनारायण उवाच श्रीकृष्णचरणाम्भोजे तन्मनाः संततं मुने
* न राज्येषु न भार्यासु न पुत्रेषु प्रजासु च