सदुक्तिर्वा कटूक्तिर्वा कोपः संताप एव च
स्थौल्यं कार्श्यं च नाशश्च दृश्यादृश्यं समुद्भवम् 4.24.
सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम्
किञ्चित्सत्त्वातिरिक्तं च किञ्चिदेव रजोधिकम्
सत्त्वोदयाच्च मुक्तीच्छा कर्मेच्छा च रजोगुणात्
कोपात्कटूक्तिर्नियतं कटूक्त्या शत्रुता भवेत्
को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत्
प्राणाधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया
यद्गतं तद्गतं सर्वं कामदोषेण वै प्रभो
किं करोमि क्व यामीति भविता कुत्र जन्म मे
इत्येवमुक्त्वा जीवश्च मौनीभूतो बभूव ह
स्वात्मारामो महाज्ञानी जहार चेतनामहो 4.24.
क्षणेन चेतनां प्राप्य प्राणांस्त्यक्तुं समुद्यतः
एतस्मिन्नन्तरे तत्र जगाम ब्राह्मणोऽर्भकः
सस्मितः श्यामवर्णश्च प्रज्वलन्ब्रह्मतेजसा
दृष्ट्वा तं संभ्रमेणैव दुर्वासाः प्रणनाम ह
उवाच ब्राह्मणवटुर्दत्त्वा तस्मै सदाशिषम्
शिशुरूपं क्षणं स्थित्वा तमुवाच विचक्षणः
शिशुरुवाच किं तत्त्वं त्वामहं विप्र पृच्छामि शोककातरम्
ब्राह्मणानां तपो धर्मस्तपःसाध्यं जगत्त्रयम्
का कस्य पत्नी कः कान्तः कस्या वा भुवनत्रये
मिथ्या पत्नी तवेयं च क्षणात्तेन गताधुना 4.24.
एकानंशा च भगिनी वसुदेवसुता हरेः
कल्पे कल्पे सुन्दरी सा तव पत्नी भविष्यति
कन्दली कदलीजातिर्भविष्यति महीतले
कल्पान्तरे शान्तरूपा तव पत्नी भविष्य ति
इत्येवमुक्त्वा शीघ्रं च विप्ररूपी जनार्दनः
मुनिः सर्वभ्रमं त्यक्त्वा तपस्यायां मनो दधे
दैत्यस्तालवनं गत्वा बभूव गर्दभाकृतिः
दैत्येन्द्रो विष्णुचक्रेण प्राणांस्त्यक्त्वा सुवाञ्छितम्