इत्येवमुक्त्वा दुर्वासा विरराम मुनेः पुरः
स्वस्तीत्युवाच दुर्वासा मुनिश्च यौतुकं ददौ 4.24.
मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः
क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम्
और्व उवाच हितं सत्यं च वेदोक्तं परिणामसुखावहम्
स्वकान्तश्च परो बन्धुरिह लोके परत्र च
देवपूजा व्रतं दानं तपश्चानशनं जपः
प्रादक्षिण्यं पृथिव्याश्च ब्राह्मणातिथिसेवनम्
किमेतैः पतिभक्ताया अभक्तायाश्च भारते पतिसेवा परो धर्मः सर्वशास्त्रेषु पठ्यते
स्वप्रज्ञानेन सततं कान्तं नारायणाधिकम्
परिहासेन कोपेन भ्रमेणावज्ञया मुने
स्त्रिया वाग्योनिदुष्टायाः कामतो भारते भुवि 4.24.
सर्वधर्मपरीता या कटूक्तिं कुरुते पतिम्
दत्त्वा कन्यां बोधयित्वा जगाम मुनिपुंगवः
सम्भोगेच्छावृते चित्ते कामी संप्राप कामिनीम्
शय्यां रतिकरीं कृत्वा मुनिश्रेष्ठो महामुने
नारीरसानभिज्ञः स्यादाजन्म मुनिपुंगवः
नानाप्रकारं शृङ्गारं चकार विधिपूर्वकम्
मूर्च्छां प्राप मुनिश्रेष्ठो बुबुधे न दिवानिशम्
विदग्धाया विदग्धेन बभूव संगमः समः
करोति कलहे नित्यं कन्दली स्वामिना सह सा तन्न बुबुधे किंचित्करोति कलहे स्पृहाम्
तातप्रदत्तज्ञानेन सा न शान्ता बभूव ह 4.24.
नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना
तया कृतां कटूक्तिं च क्षमासंस्थां चकार ह
कटूक्तिशतकं पूर्णं तत्कालेन बभूव ह
पत्नीकटूक्त्या नियतं प्रदग्धं मानसं मुनेः
स्वात्मारामो दयालुश्च कोपं त्यक्तुं न स क्षमः
मुनेरिङ्गितमात्रेण भस्मसात्सा बभूव ह
शरीरे भस्मसाद्भूते प्रतिबिंबः स चात्मनः
जीव उवाच सर्वं जानासि सर्वज्ञः किमहं बोधयामि ते