तिलोत्तमे भारते त्वं बाणपुत्री भविष्यसि
इत्येवमुक्त्वा स मुनिर्विरराम महामुने
इत्युक्तं सर्ववृत्तान्तं दैत्यस्य खरजन्मनः 4.23.
नारायण उवाच अहोऽस्य दारसंयोगः कथं तदूर्ध्वरेतसः
दृष्ट्वा तयोश्च शृङ्गारं मुनिः कामी बभूव ह
सहसा तस्य हृदये बभूव सुरते स्पृहा
एतस्मिन्नन्तरे तेन पथा याति मुनीश्वरः
ऊरूद्भवो ब्रह्मणश्च पुरा कल्पे तपस्यतः
तस्य जानूद्भवा कन्या कन्दली नाम विश्रुता
ससुतो हि मुनिश्रेष्ठो मुनेर्दुर्वाससः पुरः
मुनीन्द्रोऽपि मुनीन्द्रं तं पुरो दृष्ट्वा ससंभ्रमः
और्वो दुर्वाससं तत्र समाश्लिष्य मुदाऽन्वितः
और्व उवाच प्रौढा त्वामेव ध्यायन्ती श्रुत्वा वाचिकवक्त्रतः ।। 4.24.
अयोनिसम्भवा कन्या त्रैलोक्यं मोहितुं क्षमा
अतीव कलहाविष्टा कोपेन कटुभाषिणी
और्वस्य वचनं श्रुत्वा हर्षशोकान्वितो मुनिः
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम्
नवयौवनसंयुक्तां पश्यन्तीं वक्रचक्षुषा
मुनिर्मुमोह तां दृष्ट्वा कामबाणप्रपीडितः
दुर्वासा उवाच व्यवधानं तपस्यायाः सततं मोहकारणम्
कारागारे च संसारे दुर्वहं निगडं परम्
सङ्गिच्छायातिरिक्तं च कर्मभोगात्परात्परम्
आदेहं सङ्गिनी छाया भोगान्तं भोग एव च 4.24.
मतिश्चैवावशीलान्ता सुखी जन्मनिजन्मनि
यावच्च जीविनो जन्म तावद्भोगः सुखावहः
ध्यायतः कृष्णपादाब्जं मम विघ्नो बभूव ह
पुंश्चल्या सह शृङ्गारं दृष्ट्वा दैत्यस्य मन्मनः
किं त्वहं तव कन्यायाः कटूक्तिशतकं मुने
तवाज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव
रहस्युपस्थितां कामात्पुंश्चलीं चेज्जितेन्द्रियः