अयि किं रूपमाश्चर्यं गुणो वा तव दानव
मां विस्मरसि कालेन पुरुषः षट्पदो यथा
सत्संगमः शुभदिने पुण्यात्पुण्यवतां भवेत् 4.23.
पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः
क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु
इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम्
कुलटालिंगनालापात्सोऽतिकामी बभूव ह
पुनश्चकार शृंगारमसुरोऽष्टविधं मुने
नखदन्तकरैः क्रीडां चकार विविधां पुनः मुनेर्दुर्वाससस्तेन ध्यानभङ्गो बभूव ह
अदृष्टस्य तयोस्तत्र वल्मीकाच्छादितस्य च
ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः कामात्मनोर्न हि ज्ञानं कामेन हतचेतसोः
सहसा चेतनां प्राप्य प्रज्वलन्ब्रह्मतेजसा
दिवानिशं न जानन्तौ संयुक्तौ काममोहितौ 4.23.
उवाच तौ विहारान्ते रक्तपङ्कजलोचनः
दुर्वासा उवाच भक्तप्रधानस्य बलेः पुत्रः पशुसमप्रभः
देवो वा मानवो वाऽपि दैत्यगन्धर्वराक्षसाः
ज्ञानलज्जाविहीना च खरजातिर्विशेषतः
तिलोत्तमे त्वमुत्तिष्ठ लज्जाहीना च पुंश्चली
इत्येवमुक्त्वा स मुनिस्तस्थौ तत्र रुषा ज्वलन्
साहसिक उवाच हुताशनस्त्वं सूर्यश्च सृष्टिस्थित्यन्तकारकः
क्षमापराधं भगवन्कृपां कुरु कृपानिधे
इत्येवमुक्त्वा दैत्येन्द्रो रुरोदोच्चैः पुरो मुनेः
तिलोत्तमोवाच विधिसृष्टौ च सर्वेषां मूढा स्त्रीजातिरेव च ।। 4.23.
ततोऽतिमत्ता कुलटा सदा कामातुरा परा
इत्युक्त्वा रोदनं कृत्वा जगाम शरणं मुनेः तयोर्दृष्ट्वा च वैकल्यं बभूव करुणा मुनेः
दुर्वासा उवाच सत्कीर्तिरपकीर्तिर्वा प्राक्तनप्रभवा ध्रुवम्
विष्णुभक्तबलेः पुत्रः सद्वंशप्रभवो जनः
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम्
संप्राप्य गार्दभीं योनिं वत्स निर्वाणतां व्रज
वृन्दारण्यं तालवनं व्रज शीघ्रं व्रजान्तिकम्