श्रुत्वैवं बलिपुत्रश्च जहासोच्चैः पुनः पुनः
छलेन दर्शयामास कठिनं स्तनयोर्युगम्
श्रोणीं सुकठिनां रम्यां रम्भास्तम्भविनिन्दिनीम्
तस्य रूपं च वेषं च दर्शंदर्शं पुनःपुनः 4.23.
अतिकामातुरां दृष्ट्वा सुप्राज्ञो बलिनन्दनः
साहसिक उवाच कार्यान्तरं करिष्यामि सुचिरं स्थातुमक्षमः
कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये
शृङ्गारं देहि वा गच्छ रतिं कर्तुं सुरान्तिके
दानवस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका
तिलोत्तमोवाच कथमेवं ब्रूहि त्वं मे कान्तः प्राणाधिकः प्रियः
त्वामेवं विमुखं कृत्वा यामि चन्द्रान्तिकं यदि
अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः 4.23.
भावं विज्ञाय भावज्ञः कामशास्त्रविशारदः
जगाम च तया सार्धं गन्धमादनगह्ररम्
संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम्
नानाप्रकारशृङ्गारं चकार काममोहितः
विपरीतरतौ तुष्टा बभूव रसिकेश्वरी
तिलोत्तमा कामभावाद्बलिपुत्रमुवाच ह
तिलोत्तमोवाच एवंभूतं शुभदिनं कदा मे भविता पुनः
अयि किं रूपमाश्चर्यं गुणो वा तव दानव
मां विस्मरसि कालेन पुरुषः षट्पदो यथा
सत्संगमः शुभदिने पुण्यात्पुण्यवतां भवेत् 4.23.
पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः
क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु
इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम्
कुलटालिंगनालापात्सोऽतिकामी बभूव ह
पुनश्चकार शृंगारमसुरोऽष्टविधं मुने
नखदन्तकरैः क्रीडां चकार विविधां पुनः मुनेर्दुर्वाससस्तेन ध्यानभङ्गो बभूव ह
अदृष्टस्य तयोस्तत्र वल्मीकाच्छादितस्य च