चन्द्रशृङ्गारमाश्लेषमालापममृताधिकम्
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः
साहसिक उवाच अतो वरा चाप्सरसां विदग्धरसिकेश्वरी
सुन्दोपसुन्दयोर्नाशः निमित्तेन प्रयत्नतः
सर्वं जानासि सर्वज्ञे विज्ञा सुरतकर्मणि 4.23.
अतिप्रियश्च को वा च कः स्वभावो वरानने
गन्धर्वाणां सुराणां च राज्ञां पुण्यवतामपि
असुरस्य वचः श्रुत्वा प्रहस्य सा तिलोत्तमा
सत्यं सारमन्तरस्थमव्यक्तमतिगोपनम्
स्त्रीजातीनां च सर्वासामुपहासकरं परम्
सर्वेषामपि दुर्ज्ञेयं चरितं योषितामपि
वेदवेदाङ्गशास्त्रान्तं सर्वं जानाति पंडितः
विषादप्यप्रियो वृद्धो रत्नादपि च योषिताम्
युवानं सुन्दरं दृष्ट्वा ह्यार्ता भवति पुंश्चली
निमेषरहिता तस्य लोचनाभ्यां पिबेन्मुखम् 4.23.
मनोऽतिलोलमस्थैर्यं सर्वाङ्गानि चकम्पिरे
संप्राप्य तं चेद्रहसि साऽऽलापं कुरुते स्फुटम्
तथा यदि वशं कर्तुं न शशाक जितेन्द्रियम्
दुःसाध्ये नायके दुःखं भवेदाजन्मजन्मनि
पुंश्चलीनामप्रियः कः कः प्रियो वा महीतले
पूर्वजारं पतिं पुत्रं भ्रातरं पितरं प्रसूम्
न दानेन न मानेन सत्येन स्तवनेन वा
शयने भोजने चापि स्वप्ने ज्ञाने दिवानिशम्
शृङ्गारनिपुणानां च ध्यानसाध्या चिरं परम्
सर्वासां कुलटानां च चरित्रं कथितं मया 4.23.
मम सन्ति प्रियतरा गन्धर्वेषु सुरेषु च
विशेषतः शशधरे स्नेहो मे विद्यते परः
प्रियो मे कामसदृशो न भूतो न भविष्यति
इत्येवं कथितं सर्वमात्मनो योषितामपि
चन्द्रस्थानात्तव स्थानं समागत्य सुनिश्चितम्