भयान्मुच्येत भीतस्तु धनं नष्टधनो लभेत् दावाग्निदग्धो मुच्येत निमग्नश्च जलार्णवे
सौतिरुवाच चकार विविधं वेशं स्वात्मनः स्वामिनः कृते
भर्तुश्चकार शुश्रूषां पूजां च समयोचिताम्
महापुरुषस्तोत्रं च पूजां च कवचं मनुम्
पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः
विस्मृतं स्तोत्रकवचं वसिष्ठश्च कृपानिधिः
एवं चकार राज्यं च कुबेरभवनोपमे
यथातथा गताभिश्च स्त्रीभिरन्याभिरेव च
शौनक उवाच दत्तो विशिष्टस्ताभ्यां च तं भवान्वक्तुमर्हति
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम्
तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम 1.19.
सौतिरुवाच तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु
ॐ नमो भगवते रासमण्डलेशाय स्वाहा
पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः
ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम्
अतीव गुप्तकवचं पितुर्वक्त्रान्मया श्रुतम्
शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले
ब्रह्मोवाच ब्रह्माण्डपावनं नाम कृपया कथय प्रभो
मां महेशं च धर्मं च भक्तं च भक्तवत्सल
श्रीकृष्ण उवाच अहं दास्यामि युष्मभ्यं गोपनीयं सुदुर्लमम्
यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि 1.19.
कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव
हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम्
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम्
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः
यो भवेत्सिद्धकवचो मम तुल्यो भवेच्च सः
प्रणवो मे शिरः पातु नमो रामेश्वराय च
कृष्णः पायाच्छ्रोत्रयुग्मं हे हरे प्राणमेव च
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु