उवाच कुटिलापाङ्गी पीनश्रोणिपयोधराम्
साहसिक उवाच स्वयं क्व यासि कं सुभ्रूः पुण्यवन्तं मनोहरम्
कल्पान्ते तपसा पूतं भोक्तुं त्वामेव सुन्दरि
क्रीणीहि रतिपुण्येन मां भृत्यं रतिलोलुपम्
वाक्यं पीयूषसदृशं सस्मितं वद सुन्दरि 4.23.
आसनं देहि कल्याणि स्वोरुं कनकसन्निभम्
तीक्ष्णास्त्रेण कटाक्षेण जर्जरं कुरु भामिनि
अधरोष्ठामृतं स्वादु देहि मे क्षुधिताय च ।। पक्वदाडिमबीजाभं दन्तं दर्शय सुन्दरम
गम्भीरनाभिं त्रिवलीं द्रष्टुमिच्छामि सुन्दरि
श्रोणीं पश्यामि ललितां मुनिमानसमोहिनीम्
शरत्पार्वणचन्द्रास्यं प्रसन्नं च प्रदर्शय
दृष्ट्वाऽऽर्त कामबाणेन मानसंक्षयकामिनी पतिस्त्वत्सदृशो नाथ कामिनीनां मनीषितः
बलिपुत्रोऽसि धर्मिष्ठो रूपवान्गुणवान्युवा ।। शृङ्गारनिपुणः कान्तः कामशास्त्रविशारदः
सदा मनोज्ञः स्त्रीणां त्वं सुवेषश्च स्वभावतः
शृङ्गारज्ञं गुणज्ञं त्वां युवानं रसिकं शुचिम् दातारमनुरक्तं च कान्तमिच्छति कामिनी।।4.23.
एते सर्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवम्
संतोषं ते करिष्यामि समागम्य विधोर्गृहात् अन्याश्लेषणमात्रेण भविता धर्मलङ्घना
याश्च धर्मान्न रक्षन्ति तासां च जीवनं वृथा ता एव मातृगर्भस्था न प्राज्ञाः पौरुषै रसैः
स्ववैद्यौमदनश्चन्द्रो मरुत्वान्नलकूबरः
दिवानिशं मानसं मे तेषां क्रीडां च चिन्तयेत्
चन्द्रशृङ्गारमाश्लेषमालापममृताधिकम्
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः
साहसिक उवाच अतो वरा चाप्सरसां विदग्धरसिकेश्वरी
सुन्दोपसुन्दयोर्नाशः निमित्तेन प्रयत्नतः
सर्वं जानासि सर्वज्ञे विज्ञा सुरतकर्मणि 4.23.
अतिप्रियश्च को वा च कः स्वभावो वरानने
गन्धर्वाणां सुराणां च राज्ञां पुण्यवतामपि
असुरस्य वचः श्रुत्वा प्रहस्य सा तिलोत्तमा
सत्यं सारमन्तरस्थमव्यक्तमतिगोपनम्
स्त्रीजातीनां च सर्वासामुपहासकरं परम्