असंख्यकल्पजीवी च वैष्णवप्रवरो महान्
तस्य कल्पस्य वृत्तान्तं मुने मत्तो निशामय
एकदैव बलेः पुत्रो नाम्ना साहसिको बली
चन्देनोक्षितसर्वाङ्गो रत्नभूषणभूषितः
एतस्मिन्नन्तरे तेन पथा याति तिलोत्तमा
चारुचम्पकवर्णाभा रत्नाभरणभूषिता
स्तनमूरुं मुखेन्दुं च दृष्ट्वा साहसिको युवा 4.23.
सा ददर्श बलेः पुत्रमतीव सुमनोहरम्
शरत्पार्वणचन्द्रास्यं सुस्मितं सुमनोहरम्
क्रीडायै चन्द्रलोकं च गच्छन्ती चन्द्रकामुकी
दर्शंदर्शं च तस्यास्य प्रहस्य वक्रचक्षुषा
पुलकांकितसर्वाङ्गं धर्मकर्मसमन्वितम्
विसस्मार शशधरं बलिपुत्रमनोरथा
पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः
वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम्
दैवे कर्मणि पैत्र्ये च पुत्रे बन्धौ न भर्तरि
प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या च पुंश्चली 4.23.
सर्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित्
निष्कृतिः सर्वभोगान्ते सर्वेषामस्ति निश्चितम्
अन्यासां कामिनीनां च कीटं हन्तुं च या दया
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया
पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते
पुंश्चलीपरिपक्वान्नं सर्वपातकनिश्चितम्
अन्नं विष्ठा जलं मूत्रं पुंश्चलीनां च निश्चितम्
शतवर्षं कालसूत्रे पचत्येव सुदारुणे
आयुः श्रीयशसां हानिरिह लोके परत्र च 4.23.
पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम्
स्नानं दानं व्रतं चैव जपश्च देवपूजनम्
कथितं कुलटाख्यानं दुर्ज्ञेयं च यथागमम्
स पुनश्चेतनां प्राप्य तां दृष्ट्वैव बलेः सुतः