दृष्ट्वा शैलमुत्पतन्तं वेगेन मधुसूदनः
पूर्वस्थाने पर्वतं तं स्थापयामास कौतुकात्
उत्पत्य च महावेगाच्चकार वेष्टनं हरेः
प्रगृह्य श्रीहरिं वेगात्कृत्वा मूर्ध्नि महासुरः
प्रहरं च तयोर्युद्धं निर्लक्षे च बभूव ह
पुनर्मुहूर्तं युद्धं च बभूव भूतले तयोः 4.22.
मद्भक्तस्य बलेः पुत्रं धन्यं तज्जीवनं परम्
मद्दर्शनं स्वस्तिबीजं परं निर्वाणकारणम्
इत्येवमुक्त्वा श्रीकृष्णः सस्मार चक्रमुत्तमम्
चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम्
पपात मस्तकं भूमौ दानवस्य महात्मनः
विलोक्य हरिलोकं संश्लिष्टं कृष्णपदाम्बुजे
गगनस्थाः सुराः सर्वे मुनयश्च भृशं मुदा
नेदुर्दुन्दुभयः स्वर्गे ननृतुश्चाप्सरोगणाः
स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः
बलश्च बलिनां श्रेष्ठस्तुष्टाव पुरुषोत्तमम् 4.22.
दत्त्वा कृष्णबलाभ्यां च प्रपक्वानि फलानि च
भुक्त्वा पीत्वा हरिः शीघ्रं बलेन बालकैः सह
नारद उवाच दुर्वासाः केन दोषेण शशाप दानवेश्वरम्
केन पुण्येन वा नाथ बलिनः श्रीहरेः पदम्
मुने सर्वं सुविस्तार्य वद संदेहभञ्जन
श्रीनारायण उवाच पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने
पाद्मकल्पे च वृत्तान्तं विचित्रं सुमनोहरम्
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः
पंचाशत्कामिनीनां च पतिः शृङ्गारतत्परः
अनुक्षणं पपुस्तास्ते सुन्दरं मुखपङ्कजम्
तासां प्राणैश्च घटितो विधिना त्वमिव श्रुतम्
पुष्पोद्याने च रहसि स्थानेस्थाने मनोरमे 4.23.
काननेषु च रम्येषु श्मशाने जन्तुवर्जिते
तदा दैवाद्विधेः शापाद्भूत्वा दासीसुतो भवान्