तेजसा दग्धवक्त्रश्च तमुज्जग्राह तत्क्षणे
चूर्णयित्वा तु लांगूलं शब्दं कृत्वा भयानकम्
बलं च प्रेरयामास मस्तकेन महाबली
क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम्
पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः
पातयामास भूमौ तं चूर्णयित्वा पुनःपुनः 4.22.
यथा खड्गप्रहारेण दानवस्य भवेद्व्यथा
गोवर्धनं समुत्पाट्य घातयामास तं विभुः
पर्वतस्य प्रहारेण मूर्च्छामाप महाबलः।। । बभूव जर्जराङ्गश्च रुधिरं च समुद्वमन्
क्षणेन चेतनां प्राप्य समुत्तस्थौ रुषाऽसुरः ।। गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधवम्
दृष्ट्वा शैलमुत्पतन्तं वेगेन मधुसूदनः
पूर्वस्थाने पर्वतं तं स्थापयामास कौतुकात्
उत्पत्य च महावेगाच्चकार वेष्टनं हरेः
प्रगृह्य श्रीहरिं वेगात्कृत्वा मूर्ध्नि महासुरः
प्रहरं च तयोर्युद्धं निर्लक्षे च बभूव ह
पुनर्मुहूर्तं युद्धं च बभूव भूतले तयोः 4.22.
मद्भक्तस्य बलेः पुत्रं धन्यं तज्जीवनं परम्
मद्दर्शनं स्वस्तिबीजं परं निर्वाणकारणम्
इत्येवमुक्त्वा श्रीकृष्णः सस्मार चक्रमुत्तमम्
चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम्
पपात मस्तकं भूमौ दानवस्य महात्मनः
विलोक्य हरिलोकं संश्लिष्टं कृष्णपदाम्बुजे
गगनस्थाः सुराः सर्वे मुनयश्च भृशं मुदा
नेदुर्दुन्दुभयः स्वर्गे ननृतुश्चाप्सरोगणाः
स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः
बलश्च बलिनां श्रेष्ठस्तुष्टाव पुरुषोत्तमम् 4.22.
दत्त्वा कृष्णबलाभ्यां च प्रपक्वानि फलानि च
भुक्त्वा पीत्वा हरिः शीघ्रं बलेन बालकैः सह
नारद उवाच दुर्वासाः केन दोषेण शशाप दानवेश्वरम्
केन पुण्येन वा नाथ बलिनः श्रीहरेः पदम्