हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात्
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् 4.22.
श्रीनारायण उवाच कथं करोमि संहारमीदृशं भक्तमित्यहो
अनुमन्य स्मृतिं तस्य संजहार हरिः स्वयम्
दानवो मायया विष्णोर्विसस्मार पुनः स्वकम्
उवाच श्रीहरिं दैत्यः कोपात्प्रस्फुरिताधरः
दैत्य उवाच अद्य प्रस्थापयिष्यामि त्वामहं यममन्दिरम्
आयासि जीवनाकाङ्क्षी मम तालवनं शिशो
न कंसो न जरासन्धो नरको न समो मम
नहि संहारकर्ता च मां संहर्तुं क्षमः शिवः
मम तालतरून्भङ्क्त्वा पातयित्वा फलानि च
कस्त्वं वद बटो सत्यं कमनीयोऽतिसुन्दरः 4.22.
इत्युक्त्वा मस्तके कृत्वा प्रेरयित्वा तु तं बली
पातयित्वा च तं भूमौ विषाणाभ्यां जघान सः
दैत्यो भग्नविषाणश्च तमीशं कोपयन्मुने
तेजसा दग्धवक्त्रश्च तमुज्जग्राह तत्क्षणे
चूर्णयित्वा तु लांगूलं शब्दं कृत्वा भयानकम्
बलं च प्रेरयामास मस्तकेन महाबली
क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम्
पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः
पातयामास भूमौ तं चूर्णयित्वा पुनःपुनः 4.22.
यथा खड्गप्रहारेण दानवस्य भवेद्व्यथा
गोवर्धनं समुत्पाट्य घातयामास तं विभुः
पर्वतस्य प्रहारेण मूर्च्छामाप महाबलः।। । बभूव जर्जराङ्गश्च रुधिरं च समुद्वमन्
क्षणेन चेतनां प्राप्य समुत्तस्थौ रुषाऽसुरः ।। गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधवम्