उज्झितं सन्तमीशं च दृष्ट्वा दैत्यो मुमोच ह
कृष्णदर्शनमात्रेण बभूवास्य पुरा स्मृतिः
तेजःस्वरूपमीशं तं दृष्ट्वा तुष्टाव दानवः
दानव उवाच राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः
बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम्
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा 4.22.
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम्
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे
कलया परशुरामश्च जमदग्निसुतो महान्
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः
अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम्
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः 4.22.
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः
पूतनायै मातृगतिं प्रदाता च कृपानिधिः
स्वेच्छामय गुणातीत भक्तानां भयभञ्जन
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात्
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् 4.22.
श्रीनारायण उवाच कथं करोमि संहारमीदृशं भक्तमित्यहो
अनुमन्य स्मृतिं तस्य संजहार हरिः स्वयम्
दानवो मायया विष्णोर्विसस्मार पुनः स्वकम्