श्रीकृष्ण उवाच वृक्षान्भङ्क्त्वा चालयित्वा फलानि खादताभयम्
श्रीकृष्णाज्ञां समादाय बालका बलशालिनः
नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च
केचिद्बभञ्जुर्वृक्षाश्च चालयामासुरेव च
अवरुह्य तरुभ्यश्च बालका बलशालिनः
महाबलं महाकायं घोरं गर्दभरूपिणम्
तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया 4.22.
अस्मान्रक्ष समागच्छ हे कृष्ण करुणानिधे
हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो
भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ
जयजय गुणसिन्धो कृष्ण भक्तैकबन्धो बहुतरभययुक्तान्बालकान्रक्ष रक्ष
बालानां विक्लवं दृष्ट्वा बलेन सह माधवः
भयं नास्ति भयं नास्तीत्युक्त्वा दुद्राव सत्वरम्
दृष्ट्वा कृष्णं बलं बाला ननृतुर्विजहुर्भयम्
श्रीकृष्णो दानवं दृष्ट्वा ग्रसन्तं पुरतः शिशून्
श्रीकृष्ण उवाच गर्दभो ब्रह्मशापेन शप्तो दुर्वाससा पुरा
पापिष्ठो मम वध्योऽयं महाबलपराकमः 4.22.
आदाय बालकान्सर्वान्दूरं गच्छेत्युवाच ह
दृष्ट्वा कृष्णं दानवेन्द्रो महाबलपराक्रमः
बभूवातिदाहयुक्तो मर्तुकामोऽतितेजसा
उज्झितं सन्तमीशं च दृष्ट्वा दैत्यो मुमोच ह
कृष्णदर्शनमात्रेण बभूवास्य पुरा स्मृतिः
तेजःस्वरूपमीशं तं दृष्ट्वा तुष्टाव दानवः
दानव उवाच राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः
बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम्
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा 4.22.
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम्
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे