भक्तध्यानाय सेवायै नानारूपधरं वरम्
कुत्रचिद्राधया सार्धं गच्छन्तं रासमंडलम् 4.21.
नारायण उवाच 4.21.
शुक्लरक्तपीतश्यामाभिधानगुणशालिने 4.21.
राजत्वं चिरजीवित्वं सुधियो गणयन्ति किम् 4.21.
स्तोत्रं तस्मै पुरा दत्तं ब्रह्मणा तत्सुदुर्लभम् 4.21.
या यस्य विद्या प्राचीना न तां त्यजति निश्चितम् सुखदं मोक्षदं सारं भवबन्धविमोचनम्
एकदा राधिकानाथो बलेन सह बालकैः
वृक्षाणां रक्षिता दैत्यः खर रूपी च धेनुकः
शरीरं पर्वतसमं कूपतुल्ये च लोचने
शतहस्तपरिमिता जिह्वा लोला भयानका
दृष्ट्वा तालवनं बाला हर्षमापुरनिन्दिताः
बाला ऊचुः महाबल बलभ्रातः समस्तबलिनां वर
अवधानं कुरु विभो क्षणार्द्धं नो निवेदने
स्वादूनि सुन्दराण्येव पश्य तालफलानि च
नानावर्णानि पुष्पाणि पक्वानि दुर्लभानि च
किं त्वत्र दैत्यो बलवान्खररूपी च धेनुकः 4.22.
दुर्निवार्यश्च सर्वेषां कंसस्य सचिवो महान्
सुविचार्य जगत्कान्त वद नो वदतां वर
बालकानां वचः श्रुत्वा भगवान्मधुसूदनः
श्रीकृष्ण उवाच वृक्षान्भङ्क्त्वा चालयित्वा फलानि खादताभयम्
श्रीकृष्णाज्ञां समादाय बालका बलशालिनः
नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च
केचिद्बभञ्जुर्वृक्षाश्च चालयामासुरेव च
अवरुह्य तरुभ्यश्च बालका बलशालिनः
महाबलं महाकायं घोरं गर्दभरूपिणम्
तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया 4.22.
अस्मान्रक्ष समागच्छ हे कृष्ण करुणानिधे
हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो
भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ