स्वयं महद्विराड्रूपं विश्वौघं यस्य लोमसु
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम् 1.18.
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम्
निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम्
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती
किं स्तौमि तमनीहं च शोकार्त्ता स्त्री परात्परम्
कृपानिधिं प्रणनाम भयार्ता च पुनः पुनः
भर्तुरस्यान्तरे तस्याः परमात्मा निराकृतिः
प्रणनाम देवसंघं ब्राह्मणं पुरतः स्थितम्
दृष्ट्वा चोपरि दम्पत्योः प्रददुः परमाशिषम्
जीवितं पुरतः प्राप देवानां च वरेण च 1.18.
उपबर्हणगन्धर्वो गन्धर्वनगरं पुनः
प्रददौ ब्राह्मणेभ्यश्च भोजयामास तान्सती
महोत्सवं च विविधं हरेर्नामैकमङ्गलम्
एतत्ते कथितं सर्वं स्तवराजं च शौनक
हरिभक्तिं हरेर्दास्यं लभते वैष्णवोजनः
धर्मार्थकाममोक्षाणां निश्चितं लभते फलम्
भार्य्यार्थी लभते भार्य्यां पुत्रार्थी लभते सुतम्
भ्रष्टराज्यो लभेद्राज्यं प्रजाभ्रष्टः प्रजां लभेत्
भयान्मुच्येत भीतस्तु धनं नष्टधनो लभेत् दावाग्निदग्धो मुच्येत निमग्नश्च जलार्णवे
सौतिरुवाच चकार विविधं वेशं स्वात्मनः स्वामिनः कृते
भर्तुश्चकार शुश्रूषां पूजां च समयोचिताम्
महापुरुषस्तोत्रं च पूजां च कवचं मनुम्
पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः
विस्मृतं स्तोत्रकवचं वसिष्ठश्च कृपानिधिः
एवं चकार राज्यं च कुबेरभवनोपमे
यथातथा गताभिश्च स्त्रीभिरन्याभिरेव च
शौनक उवाच दत्तो विशिष्टस्ताभ्यां च तं भवान्वक्तुमर्हति
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम्