इति ब्रह्मवैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् आविर्वभूव तत्पश्चात्कृष्णस्य नाभिपङ्कजात् 1.3.
शुक्लवासाः शुक्लदन्तः शुक्लकेशश्चतुर्मुखः
तपसां फलदाता च प्रदाता सर्वसम्पदाम्
धाता चतुर्णां वेदानां ज्ञाता वेदप्रसूपतिः ३३ श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम्
किशोरवयसं शान्तं गोपीकान्तं मनोहरम्
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम्
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरम्
इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्
भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी 1.3.
इति ब्रह्मवैवर्त्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् आविर्बभूव तत्पश्चाद्वक्षसः परमात्मनः
सर्वसाक्षी च सर्वज्ञः सर्वेषां सर्वकर्मणाम्
धर्मज्ञानयुतो धर्मो धर्मिष्ठो धर्मदो भवेत्
श्रीकृष्णपुरतः स्थित्वा प्रणम्य दण्डवद्भुवि
श्रीधर्म उवाच कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम्
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम्
गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम्
इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे
चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च
मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् 1.3.
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत्
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च
इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः
आविर्बभूव तत्पश्चान्मुखतः परमात्मनः
कोटिपूर्णेन्दुशोभा ढ्या शरत्पङ्कजलोचना
सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम्
कृतानि यानि कर्माणि कल्पेकल्पे युगेयुगे
सरस्वत्युवाच रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। 1.3.