भस्मीभूतं च नैवेद्यं पूजनं निष्फलं भवेत्
तुष्टो देवो वरं दत्त्वा प्रयाति च स्वमन्दिरम्
दत्तापहारी देवस्वं भुक्त्वा च नरकं व्रजेत्
प्रशस्तं सर्वदेवेषु विष्णुनैवेद्यभोजनम् 4.21.
सर्वेषां च क्रममिदं ब्राह्मणानां विशेषतः
भुक्त्वा विप्रमुखे देवास्तुष्टाः स्वर्गं प्रयान्ति च
प्रशस्तफलदातॄणामिह लोके परत्र च
सर्वेषां कर्मणां सारं विप्रतुष्टिश्च दक्षिणा
पादेषु सर्वतीर्थानि पुण्यानि पादधूलिषु
तत्स्पर्शात्सर्वतीर्थेषु स्नानजन्यफलं लभेत्
सप्तजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः
स स्नातः सर्वतीर्थेषु सर्वपापात्प्रमुच्यते
दर्शनान्मुच्यते पापादिति वेदे निरूपितम्
प्रियाः प्राणाधिका विष्णोर्ये विप्रा हरिसेविनः 4.21.
येषां पादाब्जरजसा सद्यः पूता वसुन्धरा
तेषां च स्पर्शमात्रेण तीर्थपापं प्रणश्यति
दर्शनात्स्पर्शनाच्चैव सर्वपापात्प्रमुच्यते
हरिदासस्य विप्रस्य तत्पुण्यं दर्शनाल्लभेत्
उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः
पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत्
(तु. ब्रह्मवैवर्त २.१०.४९) आमान्नं हरये दत्त्वा कृत्वा पाकं च खादति
अधिकारो न शूद्राणां हरेरप्यर्चने तथा
भस्मीभूतानि सर्वाणि भविष्यन्ति न संशयः
दत्त्वा विशिष्टजीवेभ्यो विशिष्टं फलमाप्नुयात् 4.21.
शूद्राणां द्विगुणं पुण्यं वैश्येभ्योऽन्नं प्रदाय च क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च
विप्राणां च शतगुणं शास्त्रज्ञे ब्राह्मणे फलम्
स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम्
तत्फलं लभते नूनं भक्तब्राह्मणभोजने
भवन्ति सिद्धाः शाखाश्च यथा मूलनिषेचनात्
सर्वे देवाश्च रुष्टाश्चेद्देवैः कः किं करिष्यति