क्रीडास्थानात्समायान्तं शान्तं सुन्दरविग्रहम्
सद्रत्नसारभूषाभिर्भूषितं कौस्तुभेन च
शरन्मध्याह्नपद्मास्यं पश्यन्तं रत्नदर्पणे
शशाङ्केन यथाऽऽकाशं भालमध्यविराजितम् 4.21.
बकपङ्क्त्या यथाऽऽकाशं शारदीयं सुनिर्मलम्
विभान्तं विद्युता शश्वन्नवनिं नीरदं यथा
यथेन्द्रधनुषा भाति विभातं भगणैर्नभः
शरत्प्रफुल्लपद्मं च द्युमणेः किरणैर्यथा
प्रणम्य वासयामासू रत्नसिंहासने शुभे
यथा बभौ शरच्चन्द्रो ज्योतिषामन्तरे च खे
स्वेच्छामयं गुणातीतं ज्योतीरूपं सनातनम् सर्वेषां दुर्लभां नीतिं नीतिशास्त्रविशारदः
श्रीकृष्ण उवाच
आराध्यः कश्च का पूजा किं फलं पूजने भवेत्
देवे रुष्टे भवेत्किं वा पूजायाः प्रतिबन्धके 4.21.
काचिद्ददात्यत्र फलं परत्रेह न काचन
अवेदविहिता पूजा सर्वहानिकरण्डिका
दृष्टो देवस्त्वया कस्मिन्पूजेयं चानुसारिणी
साक्षाद्भुङ्क्ते च यो देवः सुप्रशस्तं तदर्चनम्
ब्राह्मणे परितुष्टे च संतुष्टाः सर्वदेवताः
पूजिता ब्राह्मणा येन पूजिताः सर्वदेवताः
भस्मीभूतं च नैवेद्यं पूजनं निष्फलं भवेत्
तुष्टो देवो वरं दत्त्वा प्रयाति च स्वमन्दिरम्
दत्तापहारी देवस्वं भुक्त्वा च नरकं व्रजेत्
प्रशस्तं सर्वदेवेषु विष्णुनैवेद्यभोजनम् 4.21.
सर्वेषां च क्रममिदं ब्राह्मणानां विशेषतः
भुक्त्वा विप्रमुखे देवास्तुष्टाः स्वर्गं प्रयान्ति च
प्रशस्तफलदातॄणामिह लोके परत्र च
सर्वेषां कर्मणां सारं विप्रतुष्टिश्च दक्षिणा
पादेषु सर्वतीर्थानि पुण्यानि पादधूलिषु
तत्स्पर्शात्सर्वतीर्थेषु स्नानजन्यफलं लभेत्