स्नातः कृताह्निको भक्त्या धृत्वा धौते च वाससी
नानाप्रकारपात्रैश्च ब्राह्मणैश्च पुरोहितैः
एतस्मिन्नन्तरे तत्राजग्मुर्नगरवासिनः
आजग्मुर्मुनयः सर्वे ज्वलन्तं ब्रह्मतेजसा
गर्गश्च गालवश्चैव शाकल्यः शाकटायनः 4.21.
सौभरिर्वामदेवश्च याज्ञवल्क्यश्च पाणिनिः
कृष्णद्वैपायनः शृङ्गी सुमन्तुर्जैमिनिः कचः
ब्राह्मणाश्च कतिविधा भिक्षुका बन्दिनस्तथा
दृष्ट्वा मुनीन्द्रान्नन्दश्च ब्राह्मणान्भूमिपांस्तथा
प्रणम्य वासयामास मुनीन्द्रान्विप्रभूमिपान्
पाकं च यष्टिनिकटे कर्तुमाज्ञां चकार ह
तत्र रत्नप्रदीपाश्च जज्वलुः परितस्तथा
नानाविधानि पुष्पाणि माल्यानि विविधानि च
तिललड्डुकपूर्णं च मण्डकानां सहस्रकम्
कलशानां सहस्रं च पूर्णं शर्करया मुने 4.21.
घृतपक्वैर्विप्रकृतैः पूर्णानि कलशानि च
फलानि परिपक्वानि कालदेशोद्भवानि च
मधूनां कुम्भशतकं सर्पिष्कुम्भ सहस्रकम्
घटानां पञ्चलक्षाणि गुडपूर्णानि निश्चितम्
वृषेन्द्राश्च बहुविधा भोगार्हद्रव्यवाहकाः
स्वर्णपीठानि च ब्रह्मन्नाजग्मुर्यष्टिसन्निधिम्
नानाविधानि वाद्यानि चारूणि मधुराणि च
छागलानां सहस्राणि महिषाणां शतानि च
बालकानां बालिकानां वृक्षाणां वृक्षयोषिताम् 4.21.
गायकानां च संगीतं नर्तकानां च नर्तनम्
रंभोर्वशी मेनका च घृताची मोहिनी रतिः
चन्द्रप्रभा सुप्रभा च रत्नमाला मदालसा
तासां नृत्येन गीतेन स्तनास्यश्रोणिदर्शनात्
एतस्मिन्नन्तरे शीघ्रमाजगाम हरिः स्वयम्
दृष्ट्वा तं च जनाः सर्वे संभ्रान्ता हर्षविह्वलाः