लभते दास्यमतुलं स्थानमीश्वरसन्निधौ
श्रीनारायण उवाच श्रीकृष्णो बालकैः सार्धं जगाम स्वालयं विभुः
गावो वत्साश्च बालाश्च जग्मुर्वर्षान्तरे गृहम्
गोपा गोपालिका किंचित्तत्कर्तुं न क्षमास्तदा
इत्येवं कथितं सर्वं श्रीकृष्णचरितं शुभम्
श्रीनारायण उवाच दुन्दुभिं वादयामास शक्रयागकृतोद्यमः
दधि क्षीरं घृतं तक्रं नवनीतं गुडं मधु
येये सन्त्यत्र नगरे गोपा गोप्यश्च बालकाः
इत्येवं श्रावयामास स्वयमेव मुदाऽन्वितः
ददौ तत्र क्षौमवस्त्रं मालाजालं मनोहरम्
स्नातः कृताह्निको भक्त्या धृत्वा धौते च वाससी
नानाप्रकारपात्रैश्च ब्राह्मणैश्च पुरोहितैः
एतस्मिन्नन्तरे तत्राजग्मुर्नगरवासिनः
आजग्मुर्मुनयः सर्वे ज्वलन्तं ब्रह्मतेजसा
गर्गश्च गालवश्चैव शाकल्यः शाकटायनः 4.21.
सौभरिर्वामदेवश्च याज्ञवल्क्यश्च पाणिनिः
कृष्णद्वैपायनः शृङ्गी सुमन्तुर्जैमिनिः कचः
ब्राह्मणाश्च कतिविधा भिक्षुका बन्दिनस्तथा
दृष्ट्वा मुनीन्द्रान्नन्दश्च ब्राह्मणान्भूमिपांस्तथा
प्रणम्य वासयामास मुनीन्द्रान्विप्रभूमिपान्
पाकं च यष्टिनिकटे कर्तुमाज्ञां चकार ह
तत्र रत्नप्रदीपाश्च जज्वलुः परितस्तथा
नानाविधानि पुष्पाणि माल्यानि विविधानि च
तिललड्डुकपूर्णं च मण्डकानां सहस्रकम्
कलशानां सहस्रं च पूर्णं शर्करया मुने 4.21.
घृतपक्वैर्विप्रकृतैः पूर्णानि कलशानि च
फलानि परिपक्वानि कालदेशोद्भवानि च
मधूनां कुम्भशतकं सर्पिष्कुम्भ सहस्रकम्
घटानां पञ्चलक्षाणि गुडपूर्णानि निश्चितम्
वृषेन्द्राश्च बहुविधा भोगार्हद्रव्यवाहकाः