किं स्तौमि किं करोमीति मनसैवं प्रगृह्य च
सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः
इडां सुषुम्नां मध्यां च पिङ्गलां नलिनीं धुराम्
मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम्
लङ्घनं कारयित्वा च तत्षट्चक्रं क्रमाद्विधिः
निबध्य वायुं मध्यां तामानीय हृदयाम्बुजम् 4.20.
एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा
मुहूर्तं च जपं कृत्वा ध्यायंध्यायं पदाम्बुजम्
तत्तेजसोऽन्तरे रूपमतीव सुमनोहरम्
श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम्
यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च
यत्स्तोत्रं च पुरा दत्तं हरिणैकार्णवे मुने
ब्रह्मोवाच सर्वानिर्वचनीयं तं नमामि शिवरूपिणम्
नवीनजलदाकारं श्यामसुन्दरविग्रहम्
स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम्
सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् 4.20.
सर्वमंत्रस्वरूपं च सर्वसंपत्करं वरम्
शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम्
कृपालुं कर्णधारं च नमामि भक्तवत्सलम्
सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम्
सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम्
सर्वमन्तस्वरूपं च नमामि परमेश्वरम्
स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे
ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे
गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम्
योगीशं योगसाध्यं च नमामि शिवसेवितम् ।।4.20.
मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम्
पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम्
निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च
ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्