शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम्
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्
एवंभूतं प्रभुं दृष्ट्वा प्रणनामातिविस्मितः
यद्दृष्टं हृदयाम्भोजे तद्रूपं बहिरेव च
तत्र वृन्दावने सर्वं दृष्ट्वा कृष्णसमं मुने
गावो वत्साश्च बालाश्च लतागुल्माश्च वीरुधः 4.20.
दृष्ट्वैवं परमाश्चर्यं पुनर्ध्यानं चकार ह
क्व च वृक्षः क्व वा शैलः क्व मही क्व च सागराः
क्व चात्मा क्व जगद्बीजं क्व स्वर्गः क्वायमेव च
क्व कृष्णो जगतां नाथः क्व वा मायाविभूतयः
किं स्तौमि किं करोमीति मनसैवं प्रगृह्य च
सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः
इडां सुषुम्नां मध्यां च पिङ्गलां नलिनीं धुराम्
मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम्
लङ्घनं कारयित्वा च तत्षट्चक्रं क्रमाद्विधिः
निबध्य वायुं मध्यां तामानीय हृदयाम्बुजम् 4.20.
एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा
मुहूर्तं च जपं कृत्वा ध्यायंध्यायं पदाम्बुजम्
तत्तेजसोऽन्तरे रूपमतीव सुमनोहरम्
श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम्
यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च
यत्स्तोत्रं च पुरा दत्तं हरिणैकार्णवे मुने
ब्रह्मोवाच सर्वानिर्वचनीयं तं नमामि शिवरूपिणम्
नवीनजलदाकारं श्यामसुन्दरविग्रहम्
स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम्
सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् 4.20.
सर्वमंत्रस्वरूपं च सर्वसंपत्करं वरम्
शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम्
कृपालुं कर्णधारं च नमामि भक्तवत्सलम्
सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम्