प्रणाशं मेनिरे सर्वे भयमापुश्च संकटे बाला गोप्यश्च संत्रस्ता भक्तिनम्रात्मकन्धराः
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन
स्रष्टा पाता च संहर्ता जगतां च जगत्पते
यमः कुबेरः पवन ईशानाद्याश्च देवताः
मानवाश्च तथा दैत्या यक्षराक्षसकिंनराः
आविर्भावस्तिरोभावः सर्वेषां च तथेच्छया
वयं त्वां शरणं यामो रक्ष नः शरणागतान्
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः 4.19.
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि
स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम्
श्रीनारायण उवाच जगाम श्रीहरिर्गेहं कुबेरभवनोपमम्
ब्राह्मणेभ्यो धनं नन्दः परिपूर्णं ददौ मुदा
नानाविधं मङ्गलं च हरेर्नामानुकीर्तनम्
एवं मुमुदिरे सर्वे वृन्दारण्ये गृहेगृहे
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम्
4.20 श्रीनारायण उवाच भुक्त्वा पीत्वाऽनुलिप्तश्च वृन्दारण्यं जगाम ह
क्रीडां चकार भगवान्कौतुकेन च तैः सह
तस्य प्रभावं विज्ञातुं विधाता जगतां पतिः
विज्ञाय तदभिप्रायं सर्वज्ञः सर्वकारकः
जगाम श्रीहरिर्गेहं कालयित्वा च गोकुलम्
एवं चकार भगवान्वर्षमेकं च प्रत्यहम्
ब्रह्मा प्रभावं विज्ञाय लज्जानम्रात्मकन्धरः
ददर्श कृष्णं तत्रैव गोपालगणवेष्टितम्
रत्नसिंहासनस्थं च हसन्तं सस्मितं मुदा
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् 4.20.
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम्
पारिजातप्रसूनानां मालाजालैर्विभूषितम्
मालतीमाल्यसंयुक्तं मयूरपिच्छचूडकम्
शरत्पार्वणचन्द्रस्य प्रभामुष्टास्यसुन्दरम्