केचिद्गोपालबालाश्च चक्रुश्च तन्निवारणम्
तेषां केचिज्ज्ञानवन्तो रक्षां चक्रुः प्रयत्नतः 4.19.
केचिद्वक्तुं प्रवृत्तिं च प्रययुर्नन्दसन्निधिम्
इत्यूचुः किं करिष्यामः कुतोऽस्माकं गतो हरिः
हे बन्धो दर्शनं देहीत्यूचुः प्राणाः प्रयान्ति हि
संप्रापुरतिलोलाश्च रुदन्तः शोकविह्वलाः
गोपान्गोपालिकाश्चैव रक्तपङ्कजलोचनाः
कलिन्दनन्दिनीतीरं रुरुदुर्बालकैर्युताः
ह्रदं विशन्तीमम्बां तां केचिच्चक्रुर्निवारणम्
केचिद्विललपुस्तत्र मूर्च्छां प्रापुश्च केचन
मूर्च्छां च प्राप सा शोकान्मृतेव च सरित्तटे
भूयोऽपि रोदनं कृत्वा भूयो मूर्च्छामवाप ह 4.19.
गोपाश्च गोपिकाश्चैव राधिकामतिमूर्च्छिताम् सर्वांश्च बोधयामास बलश्च ज्ञानिनां वरः
श्रीबलदेव उवाच
हे नन्द ज्ञानिनां श्रेष्ठ गर्गवाक्यस्मृतिं कुरु
विधातुः संविधातुश्च भुवि कस्मात्पराजयः
विद्यमानोऽप्यविदृश्यः संयोगो योगिनामपि
नाग्निग्रस्तो न हिंस्यश्चापीदमाध्यात्मिका विदुः
ज्योतिःस्वरूपस्य विभोर्नाद्यन्तमध्यमात्मनः
यन्नाभिपद्मजो ब्रह्मा तस्येशस्य ह्रदे विपत्
न तथाऽपि तदीशं तं ग्रस्तुं सर्पः क्षमो भवेत् 4.19.
निगूढं योगिनां सारं संशयच्छेदकारणम्
तत्याज शोकं नन्दश्च व्रजश्च व्रजयोषितः
बन्धुविच्छेदविषये प्रबोधे न स्थितं मनः
ददृशुस्तं सुप्रसन्ना व्रजाश्च व्रजयोषितः
अस्निग्धवस्त्रमस्निग्धमलुप्तचन्दनाञ्जनम्
मयूरपिच्छचूडं च वंशीवदनमच्युतम्
चुचुम्ब वदनाम्भोजं प्रसन्नवदनेक्षणा
निमेषरहिताः सर्वे ददृशुः श्रीमुखं हरेः
दावाग्निर्वेष्टयामास तैः सर्वैः सह गोकुलम् 4.19.