सौभरिरुवाच
का योग्यता मत्पुरस्ते ग्रहीतुं जीवमुल्बणम् 4.19.
त्वद्विधान्कोटिशः कृष्णः स्रष्टुं शक्तश्च वाहकान्
वाहनं च त्वमीशस्य न वयं तव किंकराः
मदीयशापात्तूर्णं च भस्मसाद्भविता ध्रुवम्
स्मारंस्मारं कृष्णपादं तं प्रणम्य जगाम ह
ह्रदस्य श्रुतिमात्रेण कम्पो भवति निश्चितम्
सरहस्यं श्रुतिसुखं प्रकृतं शृणु मङ्गलम्
चक्रुर्विषादं मोहाच्च रुरुदुर्यमुनातटे
केचिन्निपत्य भूमौ च मूर्च्छां प्रापुहरिं विना
केचिद्गोपालबालाश्च चक्रुश्च तन्निवारणम्
तेषां केचिज्ज्ञानवन्तो रक्षां चक्रुः प्रयत्नतः 4.19.
केचिद्वक्तुं प्रवृत्तिं च प्रययुर्नन्दसन्निधिम्
इत्यूचुः किं करिष्यामः कुतोऽस्माकं गतो हरिः
हे बन्धो दर्शनं देहीत्यूचुः प्राणाः प्रयान्ति हि
संप्रापुरतिलोलाश्च रुदन्तः शोकविह्वलाः
गोपान्गोपालिकाश्चैव रक्तपङ्कजलोचनाः
कलिन्दनन्दिनीतीरं रुरुदुर्बालकैर्युताः
ह्रदं विशन्तीमम्बां तां केचिच्चक्रुर्निवारणम्
केचिद्विललपुस्तत्र मूर्च्छां प्रापुश्च केचन
मूर्च्छां च प्राप सा शोकान्मृतेव च सरित्तटे
भूयोऽपि रोदनं कृत्वा भूयो मूर्च्छामवाप ह 4.19.
गोपाश्च गोपिकाश्चैव राधिकामतिमूर्च्छिताम् सर्वांश्च बोधयामास बलश्च ज्ञानिनां वरः
श्रीबलदेव उवाच
हे नन्द ज्ञानिनां श्रेष्ठ गर्गवाक्यस्मृतिं कुरु
विधातुः संविधातुश्च भुवि कस्मात्पराजयः
विद्यमानोऽप्यविदृश्यः संयोगो योगिनामपि
नाग्निग्रस्तो न हिंस्यश्चापीदमाध्यात्मिका विदुः
ज्योतिःस्वरूपस्य विभोर्नाद्यन्तमध्यमात्मनः
यन्नाभिपद्मजो ब्रह्मा तस्येशस्य ह्रदे विपत्