विषाग्निवज्रभीतिश्च न भवेत्तत्र निश्चितम् अन्ते च स्वकुलं पूत्वा दास्यं च लभते ध्रुवम्
श्रीकृष्ण उवाच ।। 4.19.
सार्द्धं स्वगोष्ठ्या नागेन्द्र यमुनाजलवर्त्मना
कदा द्रक्ष्यामि त्वत्पादपद्मं नाथेत्युवाच ह
जगाम जलमार्गेण नागेन्द्रो विरहातुरः
प्रसन्ना जन्तवः सर्वे बभूवुस्तेन नारद
आज्ञया च कृपासिन्धोर्निर्मितं विश्वकर्मणा
निःशङ्को हर्षयुक्तश्च हरिभावन तत्परः सुखदं मोक्षदं सारं परं किं श्रोतुमिच्छसि
सूत उवाच ऋषिं पप्रच्छ संदेहं सर्वसंदेहभञ्जनम्
नारद उवाच जगाम यमुनातीरं तन्मे ब्रूहि जगद्गुरो
श्रीनारायण उवाच
यच्छ्रुतं धर्मवक्त्रान्मे मलये सूर्यपर्वणि 4.19.
पप्रच्छ धर्मं पुलहः कथितं मुनिसंसदि
तत्र श्रुतं मया विप्र निबोध कथयामि ते
कार्तिकीपूर्णिमायां तु कुर्वन्ति गरुडार्चनम्
पुष्करे च महातीर्थे सुस्नाता भक्तिसंयुताः
नागपूजोपकरणं बलाद्भक्षितुमुद्यतः
न शक्ता वारणे ते चेत्याविर्भूतः खगेश्वरः
प्राणशक्त्या च युयुधुर्यावत्सूर्योदयं मुने
अनन्तं शरणं जग्मुः सर्वेषामभयप्रदम्
तत्र तस्थौ च निःशङ्कः कालीयस्तं ददर्श ह
पराजितश्च नागेन्द्रस्तेजसा गरुडस्य च ।। 4.19.
भिया पलायनं कृत्वा जगाम यमुना ह्रदम् तत्र तस्थौ भिया नागो जग्मुः पश्चाच्च तद्गणाः
नारद उवाच कथं न शक्तो गन्तुं तं ह्रदमीश्वरवाहनः
श्रीनारायण उवाच
तपस्तप्त्वा महासिद्धो दध्यौ कृष्णपदाम्बुजम्
गणेन सार्धं निःशंकः करोति भ्रमणं मुदा
मुनिं प्रदक्षिणी कृत्य यात्यायाति मुदाऽन्वितः
जग्राह चञ्चुना मीनं मुनीन्द्रस्य समीपतः
प्रकोपितो मुनेर्दृष्ट्या मीनस्तोये पपात ह मीनश्च गरुडत्रासात्तस्थौ मुनिसमीपतः