स्वप्ने ध्यानेन पश्यंति चक्षुषोर्गोचरः स मे
सगुणत्वं च साकारो निराकारश्च निर्गुणः
सर्वेषामीश्वरः साक्षी सर्वात्मा सर्वरूपधृक्
स्तोतुं यमीशं ते जाड्याः सर्पः स्तोष्यति तं विभुम् 4.19.
खलस्वभावादज्ञानात्कृष्ण त्वं चर्वितो मया
न स्पृश्यो हि न चावर्यस्तथा तेजस्त्वमेव च
ओमित्युक्त्वा हरिस्तुष्टः सर्वं तस्मै वरं ददौ
तद्वंश्यानां च तस्यैव नागेभ्यो न भयं भवेत्
विषपीयूषयोर्भेदो नास्त्येव तस्य भक्षणे
स्तोत्रस्मरणमात्रेण सुस्थो भवति मानवः
विषाग्निवज्रभीतिश्च न भवेत्तत्र निश्चितम् अन्ते च स्वकुलं पूत्वा दास्यं च लभते ध्रुवम्
श्रीकृष्ण उवाच ।। 4.19.
सार्द्धं स्वगोष्ठ्या नागेन्द्र यमुनाजलवर्त्मना
कदा द्रक्ष्यामि त्वत्पादपद्मं नाथेत्युवाच ह
जगाम जलमार्गेण नागेन्द्रो विरहातुरः
प्रसन्ना जन्तवः सर्वे बभूवुस्तेन नारद
आज्ञया च कृपासिन्धोर्निर्मितं विश्वकर्मणा
निःशङ्को हर्षयुक्तश्च हरिभावन तत्परः सुखदं मोक्षदं सारं परं किं श्रोतुमिच्छसि
सूत उवाच ऋषिं पप्रच्छ संदेहं सर्वसंदेहभञ्जनम्
नारद उवाच जगाम यमुनातीरं तन्मे ब्रूहि जगद्गुरो
श्रीनारायण उवाच
यच्छ्रुतं धर्मवक्त्रान्मे मलये सूर्यपर्वणि 4.19.
पप्रच्छ धर्मं पुलहः कथितं मुनिसंसदि
तत्र श्रुतं मया विप्र निबोध कथयामि ते
कार्तिकीपूर्णिमायां तु कुर्वन्ति गरुडार्चनम्
पुष्करे च महातीर्थे सुस्नाता भक्तिसंयुताः
नागपूजोपकरणं बलाद्भक्षितुमुद्यतः
न शक्ता वारणे ते चेत्याविर्भूतः खगेश्वरः
प्राणशक्त्या च युयुधुर्यावत्सूर्योदयं मुने
अनन्तं शरणं जग्मुः सर्वेषामभयप्रदम्