आजगाम रथस्तूर्णमुद्दीप्तस्तेजसा मुने
शतचक्रो वायुवेगो मनोयायी मनोहरः
प्रणम्य कृष्णं तां नीत्वा जग्मुर्गोलोकमुत्तमम्
स च किंचिन्न बुबुधे मोहितो विष्णुमायया
ददौ हस्तं च कृपया शीघ्रं कालियमस्तके
पुटाञ्जलियुतां साश्रुपूर्णां च सुरसां सतीम् 4.19.
भक्त्युद्रेकात्साश्रुनेत्रां पुलकाङ्कितविग्रहाम् यदीश्वरस्य सततं योग्यायोग्ये समा कृपा
श्रीकृष्ण उवाच
त्वं मे प्राणाधिको वत्स सुखं तिष्ठ भयं त्यज
किंचित्तद्दमनं कृत्वा त्वत्प्रसादं करोम्यहम्
द्विगुणं ब्रह्महत्याया भविता तस्य किल्बिषम्
वंशायुर्यशसा हानिर्भविता तस्य निश्चितम्
त्वत्प्रमाणाः कीटसंघा दंशिष्यन्ति च संततम्
तस्य वंशोद्भवानां च त्वद्वंशाद्भविता भयम्
प्रणमिष्यन्ति भक्त्या ते मुच्यन्ते सर्वपातकात् 4.19.
मत्पदाङ्कं मूर्ध्नि दृष्ट्वा त्वां भक्त्या प्रणमिष्यति
सर्वेषां ज्ञातिसर्पाणां वरोऽद्य भव मद्वरात्
भयं त्यक्त्वा कथय मां त्वदीयं दुःखभञ्जनम् पुटाञ्जलियुतो भूत्वा तमुवाच भुजङ्गमः
भक्तिं स्मृतिं त्वत्पदाब्जे देहि जन्मनि जन्मनि
तद्भवेत्सफलं यत्र स्मृतिस्त्वच्चरणाम्बुजे
त्वत्पादध्यानयुक्तस्य यत्तत्स्थानं च तत्परम्
यदि त्वत्सेवया याति सफलो निष्कलोऽथवा
न सन्ति जन्ममरणरोगशोकार्तिभीतयः
वाञ्छा नास्त्येव भक्तानां त्वत्पादसेवनं विना 4.19.
पश्यन्ति भक्ताः किं चान्यत्सालोक्यादिचतुष्टयम्
तावत्त्वद्भावनेनैव त्वद्वर्णोऽहमनुग्रहात्
देशाद् दूरं च न्यक्कारं चकार दृढभक्तिमान्
स च उक्तश्च भक्तोऽहं न मां त्यक्तुं क्षमोऽधुना
सदोषं गुणयुक्तं मां सोऽधुना त्यक्तुमक्षमः
भयं न केभ्यः सर्वत्र तमनंतं गुरुं विना