चन्दनोक्षितसर्वाङ्गः स्मेराननसरोरुहः
मल्लिकामालतीमालाजालैः शोभितशेखरः
पुंस्कोकिलकलध्वानैर्भ्रमरध्वनिसंयुतैः
प्रियाप्रदत्तताम्बूलं भुक्तवान्यः सदा मुदा
तमनिर्वचनीयं च किं स्तौमि नागवल्लभा
लक्ष्मीसरस्वतीदुर्गा जाह्नवी वेदमातृभिः
निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय
हे कृष्ण हे कृष्ण सुरासुरेश ब्रह्मेश शेषेश प्रजापतीश 4.19.
धर्मेश धर्मीश शुभाशुभेश वेदेश वेदेष्वनिरूपितश्च
इत्येवं स्तवनं कृत्वा भक्तिनम्रात्मकन्धरा
नागपत्नीकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम्
नारद उवाच प्रहृष्टोत्फुल्लनयनः किमुवाच हरिः स्वयम्
कथयस्व महाभाग रहस्यं परमाद्भुतम् नारदस्य वचः श्रुत्वा भगवान्सर्वदर्शनः
उवाच परमात्मानं मधुवृन्दं पदेपदे नागपत्नीवचः श्रुत्वा श्रीकृष्णस्तमुवाच ह
पुटाञ्जलियुतां पादे पतितां भयविह्वलाम् उत्तिष्ठोत्तिष्ठ नागेशे वरं वृणु भयं त्यज
भर्त्रा सगोष्ठ्या सार्द्धं च गच्छ वत्से सुखी भव 4.19.
त्वत्प्राणाधिक एवायं जामाता च न संशयः
कृत्वा च स्तवनं भक्त्या प्रणमिष्यति मत्पदम्
ह्रदान्निर्गच्छ वत्से त्वं वरं वृणु यथेप्सितम्
उवाच साश्रुनेत्रा सा भक्तिनम्रात्मकन्धरा वरं दास्यसि चेदानीं वरदेश्वर मेऽपि च
तव स्मृतर्विस्मृतिर्न कदाऽपि न भविष्यति
इत्येवं प्रार्थनीयं च परिपूर्णं कुरु प्रभो
शरत्पार्वणचन्द्रास्यं ददर्श श्रीहरेर्मुखम्
सर्वाङ्गपुलकोद्भिन्ना सानंदाश्रुपरिप्लुता
उवाच पुनरेवेदं भक्त्युद्रेकपरिप्लुता 4.19.
सर्पः करोतु संसारं कुरु मां निजकिङ्करीम्
त्वत्पदाम्भोजसेवायाः कलां नार्हन्ति षोडशीम्
भारते दुर्लभं जन्म लब्ध्वाऽसौ वञ्चितः स्वयम्
प्रसन्नमानसः श्रीमानोमित्येवमुवाच ह