गोकुलं चारयामास शिशुभिः सह कानने
क्रीडानिमग्नचित्तोऽयं बालकाश्च मुदाऽन्विताः
विषाक्तं च जलं पीत्वा दारुणान्तकचेष्टया
दृष्ट्वा मृतं गोसमूहं गोपाश्चिन्ताकुला भिया
ज्ञात्वा सर्वं जगन्नाथो जीवयामास गोकुलम्
कृष्णः कदम्बमारुह्य यमुनानीरतीरजम्
शतहस्तप्रमाणं च जलोत्थानं बभूव ह
सर्पो नराकृतिं दृष्ट्वा कालियः क्रोधविह्वलः 4.19.
दग्धकण्ठोदरो नागश्चोद्विग्नो ब्रह्मतेजसा
भग्नदन्तो रक्तमुखः कृष्णवज्राङ्गचर्वणात्
नागो विश्वंभराक्रान्तः स प्राणांस्त्यक्तुमुद्यतः
दृष्ट्वा तं मूर्छितं नागा रुरुदुः प्रेमविह्वलाः
केचित्पलायिता भीताः केचित्प्रविविशुर्बिलम्
नागिनीभिः सह प्रेम्णा रुरोद पुरतो हरेः धृत्वा पादारविन्दे च तमुवाच भियाऽऽकुला
सुरसोवाच हे जगत्कान्त मे कान्तं देहि मानं च मानद
सकलभुवननाथ प्राणनाथं मदीयं न कुरु वधमनन्त प्रेमसिन्धो सुबन्धो
त्रिनयनविधिशेषाः षण्मुखश्चास्यसंघैः स्तवनविषयजाड्यात्स्तोतुमीशा न वाणी
कुमतिरहमधिज्ञा योषितां क्वाधमा वा क्व भुवनगतिरीशश्चक्षुषोऽगोचराऽपि ।। 4.19.
स्तवनविषयभीता पार्वती कस्य पद्मा श्रुतिगणजनयित्री स्तोतुमीशा न यं त्वाम्
शयानो रत्नपर्यङ्के रत्नभूषणभूषितः
चन्दनोक्षितसर्वाङ्गः स्मेराननसरोरुहः
मल्लिकामालतीमालाजालैः शोभितशेखरः
पुंस्कोकिलकलध्वानैर्भ्रमरध्वनिसंयुतैः
प्रियाप्रदत्तताम्बूलं भुक्तवान्यः सदा मुदा
तमनिर्वचनीयं च किं स्तौमि नागवल्लभा
लक्ष्मीसरस्वतीदुर्गा जाह्नवी वेदमातृभिः
निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय
हे कृष्ण हे कृष्ण सुरासुरेश ब्रह्मेश शेषेश प्रजापतीश 4.19.
धर्मेश धर्मीश शुभाशुभेश वेदेश वेदेष्वनिरूपितश्च
इत्येवं स्तवनं कृत्वा भक्तिनम्रात्मकन्धरा