शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर
इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः
सौतिरुवाच प्रययुर्मालतीमूलं ब्रह्मेशानपुरोगमाः
ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च
ज्ञानदानं ददौ तस्मै ज्ञानानन्दः शिवः स्वयम्
वह्निदर्शनमात्रेण बभूव जठरानलः
तस्य वायोरधिष्ठानाज्जगत्प्राणस्वरूपिणः
सर्व्वाधिष्ठानमात्रेण दृष्टिशक्तिर्बभूव ह
शवस्तथाऽपि नोत्तस्थौ यथा शेते जडस्तथा
ब्रह्मणो वचनात्साध्वी तुष्टाव परमेश्वरम्
मालावत्युवाच विना येन शवाः सर्वे प्राणिनो जगतीतले
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु 1.18.
येन सृष्टा च प्रकृतिः सर्वाधारो परात्परा
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा
साकारं च निराकारं परं स्वेच्छामयं विभुम्
तपःफलं तपोबीजं तपसां च फलप्रदम्
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम्
स्वयंतेजःस्वरूपं च भक्तानुग्रहविग्रहम्
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम्
नवीननीरदश्यामं शरत्पङ्कजलोचनम्
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।। 1.18.
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम्
गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने
कुत्रचिद्गोपवेषं च वेष्टितं गोपबालकैः
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम्
वेणुं क्वणन्तं मधुरं गोपीसम्मोहकारणम्
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम्
शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम्