गतो भोगश्च युष्माकमस्माभिः सह निश्चितम्
शुभाशुभं च यत्कर्म भारते कृतिभिः सह
परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः
न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता
देवताः पितरस्तस्य हव्यदाने च तर्पणे
तस्माद्यत्नेन भार्याया रक्षणं कुरुते सुधीः
कलत्रं पाकपात्रं च सदा रक्षितुमर्हति 4.18.
स्वकान्तं च परित्यज्य परं गच्छति याऽधमा
तामेव यमदूताश्च संस्थाप्य नरकान्तरे
सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः
विकृताकारशब्दं च करोति शाश्वतं भिया
मुहूर्तार्धं सुखं भुक्त्वा लोकेऽत्र यशसा हता
परस्पृष्टा च वै नारी या स्पृहां कुरुते परम्
तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता
स्वच्छन्दगामिनी या च स्वतन्त्रा सूकरीसमा
स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता
यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् 4.18.
हरिणा निर्मिताश्छाया युष्माकं योगमायया
पुनरंशेन नः पत्न्यो भविष्यथ न संशयः
इत्येवमुक्त्वा स मुनिर्विरराम शुचाऽन्वितः
दत्त्वाऽन्नं हरये भक्त्या प्रजग्मुर्हरिमन्दिरम्
निन्द्या नीचा च संपत्तिर्विपत्तिर्महतो वरा
विना विपत्तेर्महिमा कुतः कस्य भवेद्भुवि
इत्येवं कथितं सर्वं हरेश्चरितमुत्तमम्
श्रीकृष्णाख्यानं विप्रेन्द्र नूत्नं नूत्नं पदेपदे
यावद्रम्यं तत्कथितं यच्छ्रुतं गुरुवक्त्रतः
नारद उवाच मङ्गलं कृष्णचरितं तन्मे ब्रूहि जगद्गुरो ।। 4.18.
सूत उवाच अपरं कृष्णमाहात्म्यं प्रवक्तुमुपचक्रमे
श्रीनारायण उवाच जगाम यमुनातीरं यत्र कालियमन्दिरम्
परिपक्वफलं भुक्त्वा यमुनातीरजे वने