यास्यामो यदि विप्रेश कदाऽत्रागमनं वद
अहल्यया पुनः प्राप्तः स्वामीन्द्रस्य प्रधर्षणात्
विचारं कुरु धर्मिष्ठ वेदवेदाङ्गपारग
अन्येषां च भयात्कान्ता व्रजन्ति शरणं पतिम्
अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव च
दुर्बलः सबलो वापि स्ववस्तूनामपीश्वरः
वेदवेदाङ्गपारज्ञो ज्ञानिनां योगिनां वरः
सर्वे बभूवुः शोकार्ता विरहोद्विग्नमानसाः ।। 4.18.
कृत्वा विलापं सुचिरं सर्ववेदविदां वरः
अङ्गिरा उवाच स्वकर्मभोगिनां भोगमाकर्माच्च श्रुतौ श्रुतम्
गतो भोगश्च युष्माकमस्माभिः सह निश्चितम्
शुभाशुभं च यत्कर्म भारते कृतिभिः सह
परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः
न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता
देवताः पितरस्तस्य हव्यदाने च तर्पणे
तस्माद्यत्नेन भार्याया रक्षणं कुरुते सुधीः
कलत्रं पाकपात्रं च सदा रक्षितुमर्हति 4.18.
स्वकान्तं च परित्यज्य परं गच्छति याऽधमा
तामेव यमदूताश्च संस्थाप्य नरकान्तरे
सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः
विकृताकारशब्दं च करोति शाश्वतं भिया
मुहूर्तार्धं सुखं भुक्त्वा लोकेऽत्र यशसा हता
परस्पृष्टा च वै नारी या स्पृहां कुरुते परम्
तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता
स्वच्छन्दगामिनी या च स्वतन्त्रा सूकरीसमा
स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता
यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् 4.18.
हरिणा निर्मिताश्छाया युष्माकं योगमायया
पुनरंशेन नः पत्न्यो भविष्यथ न संशयः
इत्येवमुक्त्वा स मुनिर्विरराम शुचाऽन्वितः